श्रीगणेशाय नमः ।
श्रीपार्वत्युवाच ।
श्रुतं पूजादिकं सम्यग्भवद्वक्त्राब्जनिःसृतम् ।
हृदयं छिन्नमस्तायाः श्रोतुमिच्छामि साम्प्रतम् ॥१॥
ॐ महादेव उवाच ।
नाद्यावधि मया प्रोक्तं कस्यापि प्राणवल्लभे ।
यत्वया परिपृष्टोऽहं वक्ष्ये प्रीत्यै तव प्रिये ॥२॥
ॐ अस्य श्रीछिन्नमस्ताहृदयस्तोत्रमन्त्रस्य भैरव ऋषिः ,
सम्राट् छन्दः , छिन्नमस्ता देवता , हूं बीजम् ,
ॐ शक्तिः , ह्रीं कीलकं , शत्रुक्षयकरणार्थे पाठे विनियोगः ॥
ॐ भैरवऋषये नमः शिरसि ।
ॐ सम्राट्छन्दसे नमो मुखे ।
ॐ छिन्नमस्तादेवतायै नमो हृदि ।
ॐ हूं बीजाय नमो गुह्ये ।
ॐ ॐ शक्तये नमः पादयोः ।
ॐ ह्रीं कीलकाय नमो नाभौ ।
ॐ विनियोगाय नमः सर्वाङ्गे ।
इति ऋष्यादिन्यासः ।
ॐ ॐ अङ्गुष्ठाभ्यां नमः ।
ॐ हूं तर्जनीभ्यां नमः ।
ॐ ह्रीं मध्यमाभ्यां नमः ।
ॐ ऐं अनामिकाभ्यां नमः ।
ॐ क्लीं कनिष्ठिकाभ्यां नमः ।
ॐ हूं करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
ॐ ॐ हृदयाय नमः ।
ॐ हूं शिरसे स्वाहा ।
ॐ ह्रीं शिखायै वषट् ।
ॐ ऐं कवचाय हुम् ।
ॐ क्लीं नेत्रत्रयाय वौषट् ।
ॐ हूं अस्त्राय फट् ।
इति हृदयादिषडङ्गन्यासः ।
रक्ताभां रक्तकेशीं करकमललसत्कर्त्रिकां कालकान्तिं
विच्छिन्नात्मीयमुण्डासृगरुणबहुलोदग्रधारां पिबन्तीम् ।
विघ्नाभ्रौघप्रचण्डश्वसनसमनिभां सेवितां सिद्धसङ्घैः
पद्माक्षीं छिन्नमस्तां छलकरदितिजच्छेदिनीं संस्मरामि ॥
इति ध्यानम् ।
वन्देऽहं छिन्नमस्तां तां छिन्नमुण्डधरां पराम् ।
छिन्नग्रीवोच्छटाच्छन्नां क्षौमवस्त्रपरिच्छदाम् ॥२॥
सर्वदा सुरसङ्घेन सेविताङ्घ्रिसरोरुहाम् ।
सेवे सकलसम्पत्त्यै छिन्नमस्तां शुभप्रदाम् ॥३॥
यज्ञानां योगयज्ञाय या तु जाता युगे युगे ।
दानवान्तकरीं देवीं छिन्नमस्तां भजामि ताम् ॥४॥
वैरोचनीं वरारोहां वामदेवविवर्द्धिताम् ।
कोटिसूर्य्यप्रभां वन्दे विद्युद्वर्णाक्षिमण्डिताम् ॥५॥
निजकण्ठोच्छलद्रक्तधारया या मुहुर्मुहुः ।
योगिनीस्तर्पयन्त्युग्रा तस्याश्चरणमाश्रये ॥६॥
हूमित्येकाक्षरं मन्त्रं यदीयं युक्तमानसः ।
यो जपेत्तस्य विद्वेषी भस्मतां याति तां भजे ॥७॥
हूं स्वाहेति मनुं सम्यग्यः स्मरत्यर्तिमान्नरः ।
छिनत्ति च्छिन्नमस्ताया तस्य बाधां नमामि ताम् ॥८॥
यस्याः कटाक्षमात्रेण क्रूरभूतादयो द्रुतम् ।
दूरतः सम्पलायन्ते च्छिन्नमस्तां भजामि ताम् ॥९॥
क्षितितलपरिरक्षाक्षान्तरोषा सुदक्षा
छलयुतखलकक्षाच्छेदने क्षान्तिलक्ष्या ।
क्षितिदितिजसुपक्षा क्षोणिपाक्षय्यशिक्षा
जयतु जयतु चाक्षा च्छिन्नमस्तारिभक्षा ॥१०॥
कलिकलुषकलानां कर्त्तने कर्त्रिहस्ता
सुरकुवलयकाशा मन्दभानुप्रकाशा ।
असुरकुलकलापत्रासिकाऽम्लानमूर्ति
जयतु जयतु काली च्छिन्नमस्ता कराली ॥११॥
भुवनभरणभूरिभ्राजमानानुभावा
भवभवविभवानां भारणोद्भातभूतिः ।
द्विजकुलकमलानां भासिनी भानुमूर्ति
भवतु भवतु वाणी च्छिन्नमस्ता भवानी ॥१२॥
मम रिपुगणमाशु च्छेत्तुमुग्रं कृपाणं
सपदि जननि तीक्ष्णं छिन्नमुण्डं गृहाण ।
भवतु तव यशोऽलं छिन्धि शत्रून्खलान्मे
मम च परिदिशेष्टं छिन्नमस्ते क्षमस्व ॥१३॥
छिन्नग्रीवा छिन्नमस्ता छिन्नमुण्डधराऽक्षता ।
क्षोदक्षेमकरी स्वक्षा क्षोणीशाच्छादनक्षमा ॥१४॥
वैरोचनी वरारोहा बलिदानप्रहर्षिता ।
बलिपूजितपादाब्जा वासुदेवप्रपूजिता ॥१५॥
इति द्वादशनामानि च्छिन्नमस्ताप्रियाणि यः ।
स्मरेत्प्रातः समुत्थाय तस्य नश्यन्ति शत्रवः ॥१६॥
यां स्मृत्वा सन्ति सद्यः सकलसुरगणाः सर्वदा सम्पदाढ्याः
शत्रूणां सङ्घमाहत्य विशदवदनाः स्वस्थचित्ताः श्रयन्ति ।
तस्याः सङ्कल्पवन्तः सरसिजचरणां सततं संश्रयन्ति साऽऽद्या
श्रीशादिसेव्या सुफलतु सुतरं छिन्नमस्ता प्रशस्ता ॥१७॥
इदं हृदयमज्ञात्वा हन्तुमिच्छति यो द्विषम् ।
कथं तस्याचिरं शत्रुर्नाशमेष्यति पार्वति ॥१८॥
यदीच्छेन्नाशनं शत्रोः शीघ्रमेतत्पठेन्नरः ।
छिन्नमस्ता प्रसन्ना हि ददाति फलमीप्सितम् ॥१९॥
शत्रुप्रशमनं पुण्यं समीप्सितफलप्रदम् ।
आयुरारोग्यदं चैव पठतां पुण्यसाधनम् ॥२०॥
॥इति श्रीनन्द्यावर्ते महादेवपार्वतीसंवादे
श्रीछिन्नमस्ताहृदयस्तोत्रं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel