श्रीललिताम्बिकायै नमः ।
देव्युवाच ।
देवदेव महादेव सच्चिदानन्दविग्रहा ।
सुन्दर्याहृदयं स्तोत्रं परं कौतूहलं विभो ॥१॥

ईश्वरौवाच ।

साधु साधुत्वया प्राज्ञे लोकानुग्रहकारकं ।
रहस्यमपिवक्ष्यामि सावधानमनाःशृणु ॥२॥
श्रीविद्यां जगतां धात्रीं सर्ग्गस्थितिलयेश्वरीं ।
नमामिललितां नित्यां भक्तानामिष्टदायिनीं ॥३॥
बिन्दुत्रिकोणसम्युक्तं वसुकोणसमन्वितं ।
दशकोणद्वयोपेतं चतुर्द्दश समन्वितं ॥४॥
दलाष्टकेसरोपेतं दलषोडशकान्वितं ।
वृत्तत्रययान्वितम्भूमिसदनत्रयभूषितं ॥५॥
नमामि ललिताचक्रं भक्तानामिष्टदायकं ।
अमृताम्भोनिधिन्तत्र रत्नद्वीपं नमाम्यहं ॥६॥
नानावृक्षमहोद्यानं वन्देहं कल्पवाटिकां ।
सन्तानवाटिकांवन्दे हरिचन्दनवाटिकां ॥७॥
मन्दारवाटिकां पारिजातवाटीं मुदा भजे ।
नमामितव देवेशि कदम्बवनवाटिकां ॥८॥
पुष्यरागमहारत्नप्राकारं प्रणमाम्यहं ।
पत्मरागादिमणिभिःप्राकारं सर्व्वदा भजे ॥९॥
गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये ।
वैडूर्यरत्नप्राकारम्प्रणमामि कुलेश्वरी ॥१०॥
इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहं ।
मुक्ताफलमहारत्नप्राकारम्प्रणमाम्यहं ॥११॥
मरताख्यमहारत्नप्राकाराय नमोनमः ।
विद्रुमाख्यमहारत्नप्राकारम्प्रणमाम्यहं ॥१२॥
माणिक्यमण्डपं रत्नसहस्रस्तम्भमण्डपं ।
ललिते! तवदेवेशि भजाम्यमृतवापिकां ॥१३॥
आनन्दवापिकां वन्देविमर्शवापिकां भजे ।
भजेबालातपोल्गारं चन्द्रिकोगारिकां भजे ॥१४॥
महाशृङ्गारपरिखां महापत्माटवीं भजे ।
चिन्तामणिमहारत्नगृहराजं नमाम्यहं ॥१५॥
पूर्वांनायमयं पूर्व्वद्वारं देवि नमाम्यहं ।
दक्षिणांनायरूपन्तेदक्षिणद्वारमाश्रये ॥१६॥
नमामि पश्चिमद्वारं पश्चिमाम्नाय रूपकं ।
वन्देहमुत्तरद्वारमुत्तराम्नायरूपकं ॥१७॥
ऊर्द्ध्वाम्नायमयं वन्दे ह्यूर्द्धद्वारं कुलेश्वरि ।
ललितेतव देवेशि महासिंहासनं भजे ॥१८॥
ब्रह्मात्मकं मञ्चपादमेकं तव नमाम्यहं ।
एकंविष्णुमयं मञ्चपादमन्यं नमाम्यहं ॥१९॥
एकं रुद्रमयं मञ्चपादमन्यं नमाम्यहं ।
मञ्चपादंममाम्येकं तव देवीश्वरात्मकं ॥२०॥
मञ्चैकफलकं वन्दे सदाशिवमयं शुभं ।
नमामितेहंसतूलतल्पकं परमेश्वरी! ॥२१॥
नमामिते हंसतूलमहोपाधानमुत्तमं ।
कौस्तुभास्तरणंवन्दे तव नित्यं कुलेश्वरी ॥२२॥
महावितानिकां वन्दे महायविनिकां भजे ।
एवम्पूजागृहं ध्यात्वा श्रीचक्रे श्रीशिवां भजे ॥२३॥
स्वदक्षिणे स्थापयामि भागे पुष्पाक्षतादिकान् ।
अमितांस्तेमहादेवि दीपान् सन्दर्शयाम्यहं ॥२४॥
मूलेन त्रिपुराचक्रं तव सम्पूज्ययाम्यहं ।
त्रिभिःखण्डैस्तवख्यातैः पूजयामि महेश्वरि! ॥२५॥
वाय्वग्नि जलसम्युक्तं प्राणायामैरहं शिवै ।
शोषाणान्दाहनं चैव करोमि प्लावनं तथा ॥२६॥
त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहं ।
पाषण्डकारिणोभूता भूमौये चान्तरिक्षके ॥२७॥
करोम्यनेन मन्त्रेण तालत्रयमहं शिवे ।
नारायणोहम्ब्रह्माहं भैरवोहं शिवोस्म्यहं ॥२८॥
देवोहं परमानन्दोस्म्यहं त्रिपुरसुन्दरि ।
ध्यात्वावै वज्रकवचं न्यासं तव करोम्यहं ॥२९॥
कुमारीबीजसम्युक्तं महात्रिपुरसुन्दरि!।
मांरक्षरक्षेति हृदि करोम्यज्ञलिमीश्वरि!॥३०॥
महादेव्यासनायेति प्रकरोम्यासनं शिवे ।
चक्रासनंनमस्यामि सर्व्वमन्त्रासनं शिवे ॥३१॥
साद्ध्यसिद्धासनं मन्त्रैरेभिर्युक्तं महेश्वरि ।
करोम्यस्मिन्चक्रमन्त्रैर्देवतासनमुत्तमं ॥३२॥
करोम्यथ षडङ्गाख्यं मातृकां च कलां न्यसे ।
श्रीकण्टङ्केशवं चैव प्रपञ्चं योगमातृकां ॥३३॥
तत्वन्यासं ततः कूर्व्वे चतुष्पीटं यथाचरे ।
लघुषोढान्ततः कूर्व्वे शक्तिन्यासं महोत्तमं ॥३४॥
पीटन्यासं ततः कुर्वे देवतावाहनं प्रिये ।
कुङ्कुमन्यासकञ्चैव चक्रन्यासमथाचरे ॥३५॥
चक्रन्यासं ततः कुर्व्वे न्यासं कामकलाद्वयं ।
षोडशार्ण्णमहामन्त्रैरङ्गन्यासङ्करोम्यहं ॥३६॥
महाषोढां ततः कुर्व्वे शाम्भवं च महाप्रिये ।
ततोमूलम्प्रजप्त्वाथ पादुकाञ्च ततः परं ॥३७॥
गुरवे सम्यगर्च्याथ देवतां हृदिसम्भजे ।
करोमिमण्डलं वृत्तं चतुरश्रं शिवप्रिये ॥३८॥
पुष्पैरभ्यर्च्च्यसाधारं शङ्खं सम्पूजयामहं ।
अर्च्चयामिषडङ्गेन जलमापूरयाम्यहं ॥३९॥
ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितं ।
तजजलेनजगन्मातस्त्रिकोणं वृत्तसम्युतं ॥४०॥
षल्कोणं चतुरश्रञ्च मण्डलं प्रणमाम्यहं ।
विद्ययापूजयामीह त्रिखण्डेन तु पूजनं ॥४१॥
बीजेनवृत्तषल्कोणं पूजयामि तवप्रिये ।
तस्मिन्देवीकलात्मानां मणिमण्डलमाश्रये ॥४२॥
धूम्रार्च्चिषं नमस्यामि ऊष्मां च ज्वलनीं तथा ।
ज्वालिनीञ्च नमस्यामि वन्देहं विस्पुलिङ्गिनीं ॥४३॥
सुश्रियं च सुरूपाञ्चकम्पिलां प्रणमाम्यहं ।
नौमिहव्यवहां नित्यां भजे कव्यवहां कलां ॥४४॥
सूर्याग्निमण्डलां तत्र सकलाद्वादशात्मकं ।
अर्घ्यपाद्यमहन्तत्र तपिनीं तापिनीं भजे ॥४५॥
धूम्रां मरीचीं वन्देहं ज्वालिनीं मरुहं भजे ।
सुषुम्नाम्भोगदां वन्दे भजे विश्वां च बोधिनीं ॥४६॥
धारिणीं च क्षमां वन्दे सौरीरेताः कलाभजे ।
आश्रयेमण्मलं चान्द्रं तल्कलाषोडशात्मकं ॥४७॥
अमृतां मानदां वन्दे पूषां तुष्टीं भजाम्यहं ।
पुष्टिम्भजे महादेवि भजेहं च रतिं धृतिं ॥४८॥
रशनिं चन्द्रिकां वन्दे कान्तीं जोत्सना श्रियं भजे ।
नेऔमिप्रीतिञ्चागतदाञ्चपूर्ण्णिमाममृताम्भजे ॥४९॥
त्रिकोणलेखनं कुर्व्वे आकारादिसुरेखकं ।
हलक्षवर्ण्णसम्युक्तंस्पीतं तं हंसभास्करं ॥५०॥
वाक्कामशक्ति संयुक्तं हंसमाराधयाम्यहं ।
वृत्ताद्बहिःषडश्रस्यलेखनं प्रकरोम्यहं ॥५१॥
पुरतोग्न्यादिषल्ख़ोणं कखगेनार्च्चयाम्यहं ।
श्रीविद्ययासप्तवारं करोम्यत्राभि मन्त्रितं ॥५२॥
समर्प्पयामि देवेशि तस्मात् गन्धाक्षतादिकं ।
ध्यायामिपूजाद्रव्येषु तत् सर्व्वं विद्ययायुतं ॥५३॥
चतुर्न्नवतिसन्मन्त्रान् स्पृष्ट्वा तत् प्रजपाम्यहं ।
वह्नेर्द्दशकलाःसूर्यकलाद्वादशकं भजे ॥५४॥
आश्रये शोडषकलास्तत्र चन्द्रमसस्तदा ।
सृष्टिम्वृद्धिम् स्मृतिम् वन्दे मेधाम् कान्तेएम् तथैव च ॥५५॥
लक्ष्मीम् द्युथिम् स्थिताम् वन्दे स्थितिम् सिद्धिम् भजाम्यहम् ।
एताब्रह्मकलावन्दे जरान्थाम् पालिनीम् भजे ॥५६॥
शान्तिं नमामीश्वरीं च रतीं वन्दे च कारिकां ।
वरदांह्लादिनीं वन्दे प्रीतिं दीर्घां भजाभम्यहं ॥५७॥
एता विष्णुअकलावन्दे तीक्षणां रौद्रिं भयां भजे ।
निद्रान्तन्द्रीं क्षुधां वन्दे नमामि क्रोधिनीं क्रियां ॥५८॥
उल्कारीं मृत्युरूपां च एता रुद्रकला भजे ।
नीलाम्पीतां भजे श्वेतां वन्देहमरुणां कलां ॥५९॥
अनन्तख्यां कलाञ्चेति ईश्वरस्य कलाभजे ।
निवृत्तिञ्चप्रतिष्ठाञ्चविद्यांशान्तिं भजाम्यहं ॥६०॥
रोधिकां दीपिकां वन्दे रेचिकां मोचिकां भजे ।
परांसूक्षामृतां सूक्षां प्रणामि कुलेश्वरि! ॥६१॥
ज्ञानाख्याञ्चनमस्यामि नौमिज्ञानामृतां कलां ।
आप्यायिनींव्यापिनीं च मोदिनीं प्रणमाम्यहं ॥६२॥
कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहं ।
विष्णुयोनिंनमस्यामि मूलविद्यां नमाम्यहं ॥६३॥
त्रैयम्बकम् नमस्यामि तद्विष्णुम् प्रणमाम्यहम् ।
विष्णुयोनिम्नमस्यामि मूलविद्याम् नमाम्यहम् ॥६४॥
अमृतं मन्त्रितं वन्दे चतुर्न्नवतिभिस्तथा ।
अखण्डैकरसानन्दकरेपरसुधात्मनि ॥६५॥
स्वच्छन्दस्पपुरणं मन्त्रं नीधेहि कुलरूपिणि ।
अकुलस्थामृताकारेसिद्धिज्ञानकरेपरे ॥६६॥
अमृतं निधेह्यस्मिन् वस्तुनिक्लिन्नरूपिणि ।
तद्रूपाणेकरस्यत्वङ्कृत्वाह्येतत् स्वरूपिणि ॥६७॥
भूत्वा परामृताकारमयि चित् स्पुरणं कुरु ।
एभिर्म्मनूत्तमैर्वन्देमन्त्रितं परमामृतं ॥६८॥
जोतिम्मयमिदं वन्दे परमर्घ्यञ्च सुन्दरि ।
तद्विन्दुभिर्मेशिरसि गुरुं सन्तर्प्पयाम्यहं ॥६९॥
ब्रह्मास्मिन् तद्विन्दुं कुण्डलिन्यां जुहोम्यहं ।
हृच्चक्रस्तां-महादेवींमहात्रिपुरसुन्दरीं ॥७०॥
निरस्तमोहतिमिरां साक्षात् संवित् स्वरूपिणीं ।
नासापुटात्परकलामथनिर्ग्गमयाम्यहं ॥७१॥
नमामियोनिमद्ध्यास्थां त्रिखण्डकुसुमांञ्जलिं ।
जगन्मातर्महादेवियन्त्रेत्वां स्थापयाम्यहं ॥७२॥
सुधाचैतन्यमूर्त्तीं ते कल्पयामिमनुं तव ।
अनेनदेविमन्त्रयन्त्रेत्वां स्थापयाम्यहं ॥७३॥
महापत्मवनान्तस्थे कारणानन्तविग्रहे ।
सर्वभूतहितेमातरेह्यपि परमेश्वरि ॥७४॥
देवेशी भकतसुलभे सर्व्वाभरणभूषिते ।
यावत्वम्पूजयामीहतावत्त्वं सुस्थिराभव ॥७५॥
अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहं ।
कल्पयामिनमः पादमर्घ्यं ते कल्पयाम्यहं ॥७६॥
गन्धतैलाभ्यञ्जनञ्चमज्जशालाप्रवेशं ।
कल्पयामिनमस्तस्मै मणिपीठोप्रवेशनं ॥७७॥
दिव्यस्नानीयमीशानि गृहाणोद्वर्त्तनं शुभे ।
गृहाणोष्णादकस्नानङ्कल्पयाम्यभिषेचनं ॥७८॥
हेमकुम्भायुतैः स्निग्द्धैः कल्पयाम्यभिषेचनं ।
कल्पयामिनमस्तुभ्यं धएऔतेन परिमार्ज्जनं ॥७९॥
बालभानु प्रतीकाशं दुकूलं परिधानकं ।
अरुणेनदुकुलेनोत्तरीयं कल्पयाम्यहं ॥८०॥
प्रवेशनं कल्पयामि सर्वाङ्गानि विलेपनं ।
नमस्तेकल्पयाम्यत्र मणिपीठोपवेशनं ॥८१॥
अष्टगन्धैः कल्पयामि तवलेखनमम्बिके ।
कालागरुमहाधूपङ्कल्पयामि नमश्शिवे ॥८२॥
मल्लिकामालातीजाति चम्पकादि मनोरमैः ।
अर्च्चिताङ्कुसुमैर्म्मालां कल्पयामिनमश्शिवे ॥८३॥
प्रवेशनं कल्पयामि नमो भूषणमण्डपे ।
उपवेश्यंरत्नपीठे तत्रते कल्पयाम्यहं ॥८४॥
नवमाणिक्यमकुटं तत्रते कल्पयाम्यहं ।
शरच्चन्द्रनिभंयुक्तं तच्चन्द्रशकलं तव ॥८५॥
तत सीमन्तसिन्दूरं कस्तूरीतिलकं तव ।
कालाज्ञनङ्कल्पयामि पालीयुगलमुत्तमं ॥८६॥
मणिकुण्डलयुग्मञ्च नासाभरणमीश्वरी!।
ताटङ्कयुगलन्देवि ललिते धारयाम्यहं ॥८७॥
अथाद्यां भूषणं कण्ठे महाचिन्ताकमुत्तमं ।
पदकन्ते कल्पयामि महापदकमुत्तमं ॥८८॥
मुक्तावलीं कल्पयामि चैकावलि समन्वितां ।
छन्नवीरञ्चकेयूरयुगलानां चतुष्टयं ॥८९॥
वलयावलिमालानीं चोर्मिकावलिमीश्वरि ।
काञ्चीदामकटीसूत्रंसौभग्याभरणं च ते ॥९०॥
त्रिपुरे पादकटकं कल्पये रत्ननूपुरं ।
पादाङ्गुलीयकन्तुभ्यं पाशमेकं करेतव ॥९१॥
अन्ये करेङ्कुशं देवि पूण्ड्रेक्षुधनुषं तव ।
अपरेपुष्पबाणञ्च श्रीमन्माणिक्यपादुके ॥९२॥
तदावरण देवेशि महामञ्चादिरोहणं ।
कामेश्वराङ्कपर्यङ्कमुपवेशनमुत्तमं ॥९३॥
सुधया पूर्ण्णचषकं ततस्तत् पानमुत्तमं ।
कर्प्पूरवीटिकान्तुभ्यं कल्पयामि नमः शिवे ॥९४॥
आनन्दोल्लासविलसद्धंसं ते कल्पयाम्यहं ।
मङ्गलारात्रिकंवन्दे छत्रं ते कल्पयाम्यहं ॥९५॥
चामरं यूगलं देविदर्प्पणं कल्पयाम्यहं ।
तालव्रिन्तङ्कल्पयामिगन्धपुष्पाक्षतैरपि ॥९६॥
धूपं दीपश्चनैवेद्यं कल्पयामि शिवप्रिये ।
अथाहम्बैन्दवे चक्रे सर्वानन्दमयात्मके ॥९७॥
रत्नसिंहासने रम्ये समासीनां शिवप्रियां ।
उद्यद्भानुसहस्राभाञ्जपापुष्पसमप्रभां ॥९८॥
नवरत्नप्रभायुक्तमकुटेन विराजितां ।
चन्द्ररेखासमोपेताङ्कस्तूरितिलकाङ्कितां ॥९९॥
कामकोदण्डसौन्दर्यनिर्ज्जितभ्रऊलतायुतां ।
अञ्जनाञ्चितनेत्रान्तुपत्मपत्रनिभेषणां ॥१००॥
मणिकुण्डलसम्युक्त कर्ण्णद्वयविराजितां ।
ताम्बूलपूरितमुखींसुस्मितास्यविराजितां ॥१०१॥
आद्यभूषणसम्युक्तां हेमचिन्ताकसंयुतां ।
पदकेनसमोपेतां महापदकसंयुतां ॥१०२॥
मुक्ताफलसमोपेतामेकावलिसमन्वितां ।
कौसुभाङ्गदसंयुक्तचतुर्बाहुसमन्वितां ॥१०३॥
अष्टगन्धसमोपेतां श्रीचन्दनविराजितां ।
हेमकुम्भोपमप्रख्यस्तनद्वन्दविराजितां ॥१०४॥
रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुतां ।
सूक्ष्मरोमावलियुक्ततनुमद्ध्यविराजिताम् ॥१०५॥
मुक्तामाणिक्यखचित काञ्चीयुतनितम्बनीं ।
सदाशिवाङकस्थबृहन्महाजघनमण्डलाम् ॥१०६॥
कदलिस्तम्भसंराजदूरुद्वयविराजितां ।
कपालीकान्तिसङ्काशजङ्घायुगलशोभिताम् ॥१०७॥
ग्रूढगुल्फद्वेयोपेतां रक्तपादसमन्वितां ।
ब्रह्मविष्णुमहेशादिकिरीटस्फूर्ज्जिताङ्घ्रिकाम् ॥१०८॥
कान्त्या विराजितपदां भक्तत्राण परायणां ।
इक्षुकार्मुकपुष्पेषुपाशाङ्कुशधरांशुभां ॥१०९॥
संवित् स्वरूपिणीं वन्दे ध्यायामि परमेश्वरीं ।
प्रदर्शयाम्यथशिवेदशामुद्राः फलप्रदाः ॥११०॥
त्वां तर्प्पयामित्रिपुरे त्रिधना पार्व्वति ।
अग्नएऔमहेशदिग्भागे नैरृत्र्यां मारुते तथा ॥१११॥
इन्द्राशावारुणी भागे षडङ्गान्यर्च्चये क्रमात् ।
आद्याङ्कामेश्वरीं वन्दे नमामि भगमालिनीं ॥११२॥
नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहं ।
वह्निवासांनमस्यामि महाविद्येश्वरीं भजे ॥११३॥
शिवदूतिं नमस्यामि त्वरितां कुल सुन्दरीं ।
नित्यांनीलपताकाञ्च विजयां सर्व्वमङ्गलां ॥११४॥
ज्वालामालाञ्च चित्राञ्च महानित्यां च संस्तुवे ।
प्रकाशानन्दनाथाख्याम्पराशक्तिनमाम्यहं ॥११५॥
शुक्लदेवीं नमस्यामि प्रणमामि कुलेश्वरीं ।
परशिवानन्दनाथाख्याम्पराशक्ति नमाम्यहं ॥११६॥
कौलेश्वरानन्दनाथं नौमि कामेश्वरींसदा ।
भोगानन्दंनमस्यामि सिद्धौघञ्च वरानने ॥११७॥
क्लिन्नानन्दं नमस्यामि समयानन्दमेवच ।
सहजानन्दनाथञ्चप्रणमामि मुर्म्मुहु ॥११८॥
मानवौघं नमस्यामि गगनानन्दगप्यहं ।
विश्वानन्दंनमस्यामि विमलानन्दमेवच ॥११९॥
मदनानन्दनाथञ्च भुवनानन्दरूपिणीं ।
लीलानन्दंनमस्यामि स्वात्मानन्दं महेश्वरि ॥१२०॥
प्रणमामिप्रियानन्दं सर्व्वकामफलप्रदं ।
परमेष्टिगुरुंवन्दे परमङ्गुरुमाश्रये ॥१२१॥
श्रीगुरुं प्रणमस्यामि मूर्द्ध्नि ब्रह्मबिलेश्वरीं ।
श्रीमदानन्दनाथाख्यश्रिगुरोपादुकां तथा ॥१२२॥
अथ प्राथमिके देवि चतुरश्रे कुलेश्वरि ।
अणिमांलखिमां वन्दे महिमां प्रणमाम्यहं ॥१२३॥
ईशित्वसिद्धिं कलये वशित्वं प्रणमाम्यहं ।
प्राकाम्यसिद्धिम्भुक्तिञ्च इच्छाप्राप्र्तिमहं भजे ॥१२४॥
सर्व्वकामप्रदां सर्व्वकामसिद्धिमहं भजे ।
मद्ध्यमेचतुरश्रेहं ब्राह्मीं माहेश्वरीं भजे ॥१२५॥
कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहं ।
माहेन्द्रीमपिचामुण्डांमहालक्ष्मीमहं भजे ॥१२६॥
तृतीये चतुरश्रे तु सर्व्वसंक्षोभिणीं भजे ।
सर्व्वविद्रापिणींमुद्रां सर्व्वाकर्षिणिकां भजे ॥१२७॥
मुद्रां वशङ्करीं वन्दे सर्व्वोन्मादिनिकां भजे ।
भजेमहाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहं ॥१२८॥
बीजामुद्रां योनिमुद्रां भजे सर्व्वत्रिखण्डिनीं ।
त्रैलोक्यमोहनञ्चक्रं नमामि ललिते तव ॥१२९॥
नमामि योगिनीं तत्र प्रखटाख्यामभीष्टदां ।
सुधार्ण्णवासनंवन्दे तत्र ते परमेश्वरि ॥१३०॥
चक्रेश्वरि महं वन्दे त्रिपुरां प्रणमाम्यहं ।
सर्व्वसंक्षोभिणींमुद्रां ततोहं कलये शिवे ॥१३१॥
अथाहं षोडशदले कामाकर्षिणिकां भजे ।
बुद्ध्याकर्षिणिकांवन्देहङ्काराकर्षिणिकां भजे ॥१३२॥
शब्दाकर्षिणिकां वन्दे स्पर्शाकर्षिणिकां भजे ।
रूपाकर्षिणिकांवन्दे रसाकर्षिणिकां भजे ॥१३३॥
गन्धाकर्षिणिकां वन्दे चित्ताकर्षिणिकां भजे ।
धैर्याकर्षिणिकांवन्दे स्मृत्याकर्षिणिकां भजे ॥१३४॥
नामाकर्षिणिकां वन्दे बीजाकर्षिणिकां भजे ।
आत्माकर्षिणिकांवन्दे अमृताकर्षिणिकां भजे ॥१३५॥
शरीराकर्षिणिकां वन्दे नित्यां श्रीपरमेश्वरि ।
सर्व्वाशापूरकंवन्दे कल्पयेहं तवेश्वरि ॥१३६॥
गुप्ताख्यां योगिनीं वन्दे मातरं गुप्तपूज्यतां ।
पोताम्बुजासनन्तत्र नमामि ललिते तव ॥१३७॥
त्रिपुरेशीं नमस्यामि भजामिष्टार्त्थसिद्धिदां ।
सर्व्वविद्राविणिमुद्रान्तत्राहं ते विचन्तये ॥१३८॥
सिवे तवाष्टपत्रेहमनङ्गकुसुमां भजे ।
अनङ्गमेखलांवन्दे अनङ्गमदनां भजे ॥१३९॥
नमोहं प्रणस्यामि अनङ्गमदनातुरां ।
अनङ्गरेखाङ्कलये भजेनङ्गां च वेगिनीं ॥१४०॥
अनङ्गाकुशां वन्देह मनङ्गमालिनीं भजे ।
तत्राहम्प्रणस्यामि देव्या आसनमुत्तमं ॥१४१॥
नमामि जगतीशानीं तत्र त्रिपुरसुन्दरीं ।
सर्व्वाकर्षिणिकांमुद्रां तत्राह कलपयामिते ॥१४२॥
भुवनाश्रये तव शिवे सर्व्वसंक्षोभिणीं भजे ।
सर्व्वविद्राविणींवन्दे सर्व्वकर्षिणिकां भजे ॥१४३॥
सर्व्वह्लादिनीं वन्दे सर्व्वसम्मोहिनीं भजे ।
सकलस्तम्भिनीं वन्दे कलये सर्व्वजृम्भिणीं ॥१४४॥
वशङ्करीं नमस्यामि सर्व्वरज्ञिनिकां भजे ।
सकलोन्मदिनींवन्दे भजे सर्व्वार्त्थसाधके ॥१४५॥
सम्पत्तिपुरिकां वन्दे सर्व्वमन्त्रमयीं भजे ।
भजाम्येवततश्शक्तिं सर्व्वद्वन्द्वक्ष्यङ्करीं ॥१४६॥
तत्राहं कलये चक्रं सर्व्वसौभाग्यदायकं ।
नमामिजगतां धात्रीं सम्प्रदायाख्ययोगिनिं ॥१४७॥
नमामि परमेशानीं महात्रिपुरवासिनिं ।
कलयेहन्तव शिवे मुद्रां सर्व्वशङ्करीं ॥१४८॥
बहिर्द्दशारे ते देवि सर्व्वसिद्धिप्रदां भजे ।
सर्व्वसम्पत्प्रदां वन्दे सर्व्वप्रियङ्करीं भजे ॥१४९॥
नमाम्यहं ततो देवीं सर्व्वमङ्गलकारिणीं ।
सर्व्वकामप्रदांवन्दे सर्व्वदुःखविमोचिनिं ॥१५०॥
सर्व्वमृत्युप्रशमनीं सर्व्वविघ्ननिवारिणीं ।
सर्व्वाङ्गसुन्दरींवन्दे सर्व्वसौभाग्यदायिनीं ॥१५१॥
सर्व्वार्त्थसाधकं चक्रं तत्राहं ने विचिन्तये ।
तत्राहन्ते नमस्यामि कुलोत्तीर्णाख्य योगिनीं ॥१५२॥
सर्व्वमन्त्रसनं वन्दे त्रिपुराश्रियमाश्रये ।
कलयामिततो मुद्रां सर्व्वोन्मादन कारिणीं ॥१५३॥
अन्तर्द्दशारे ते देवि सर्वज्ञां प्रणमाम्यहं ।
सर्व्वशक्तिंनमस्यामि सर्व्वैश्वर्यप्रदां भजे ॥१५४॥
सर्व्वज्ञानमयीं वन्दे सर्व्वव्याधिविनाशिनीं ।
सर्व्वाधारस्वरूपाञ्चसर्व्वपापहराम्भजे ॥१५५॥
सर्वानन्दमयिं वन्दे सर्व्वरक्षास्वरूपिणीं ।
प्रणमामिमहादेवीं सर्वेप्सित फलप्रदां ॥१५६॥
सर्व्वरक्षाकरं चक्रं सुन्दरीं कलये सदा ।
निगर्भयोनींवन्दे तत्राहं प्रणमाम्यहं ॥१५७॥
साद्ध्यसिद्धासनं वन्दे भजे त्रिपुरमालिनीं ।
कलयामिततो देवीं मुद्रां सर्व्वमहाङ्कुशां ॥१५८॥
अष्टारे वशिनीं वन्दे महा कामेश्वरीं भजे ।
मोदिनींविमलांवन्दे अरुणाजयिनीं भजे ॥१५९॥
सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहं ।
सर्वरोगहरञ्चक्रं तत्राहं कलये सदा ॥१६०॥
नमामि त्रिपुरा सिद्धिं भजे मुद्रां च खेचरीं ।
महात्रिकोणवत्बाहुचतुरश्रे कुलेश्वरि ॥१६१॥
नमामि जृम्भणाबाणं सर्व्वसंमोहिनीं भजे ।
पाशञ्चापं भजे नित्यं भजे स्तम्भनमङ्कुशं ॥१६२॥
त्रिकोणेहं जगद्धात्रीं महाकामेश्वरीं भजे ।
महावज्रेश्वरींवन्दे महाश्रीभगमालिनीं ॥१६३॥
महाश्रीसुन्दरीं वन्दे सर्व्वकामफलप्रदां ।
सर्व्वसिद्धिप्रदञ्चक्रं तवदेवि नमाम्यहं ॥१६४॥
नमाम्यतिरहस्याख्यां योगिनीं तवकामदां ।
त्रिपुराम्बांनमस्यामि बीजामुद्रामहाम्भजे ॥१६५॥
मूलमन्त्रेण ललिते तल्बिन्दौ पूजयाम्यहं ।
सर्वानन्दमयञ्चक्रं तवदेवि भजाम्यहं ॥१६६॥
परां पररहस्याख्यां योगिनीं तत्रकामदां ।
महाचक्रेश्वरींवन्दे योनिमुद्रामहं भजे ॥१६७॥
धूपदीपादिकं सर्वमर्प्पितं कल्पयाम्यहं ।
त्वल्प्रीतयेमहामुद्रां दर्शयामि ततश्शिवे ॥१६८॥
शाल्यन्नं मधुसम्युक्तं पायसापूप सम्युक्तं ।
घृतसूपसमायुक्तन्दधिक्षीरसमन्वितं ॥१६९॥
सर्व्वभक्ष्यसमायुक्तं बहुशाकसमन्वितं ।
निक्षिप्यकाञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥१७०॥
सङ्कल्पबिन्दुना चक्रं कुचौ बिन्दुद्वयेन च ।
योनिश्चसपरार्द्धेन कृत्वा श्रीललिते तव ॥१७१॥
एतत् कामकला रूपं भक्तानां सर्व्वकामदं ।
सर्व्वसौभाग्यदंवन्दे तत्र त्रिपुरसुन्दरीं ॥१७२॥
वामभागे महेशानि वृत्तं च चतुश्रकं ।
कृत्वागन्धाक्षताद्यैश्चाप्यर्च्चयामि महेश्वरीं ॥१७३॥
वाग्दवाद्यं नमस्यामि तत्र व्यापकमण्डलं ।
जलयुक्तेनपाणौ च शुद्धमुद्रा समन्वितं ॥१७४॥
तत्र मन्त्रेण दास्यामि देवि ते बलिमुत्तमं ।
नमस्तेदेवदेवेशि नम स्त्रैलोक्यवन्दिते ॥१७५॥
नमश्शिववराङ्कस्थे नमस्त्रीपुरसुन्दरि ।
प्रदक्षिणनमस्कारमनेनाहं करोमि ते ॥१७६॥
तत सङ्कल्पमन्त्राणां समाजं परमेश्वरि ।
प्रजपामिमहाविद्यां त्वत् प्रीत्यर्त्थमहं शिवे ॥१७७॥
तव विद्यां प्रजप्त्वाथ नौमि त्वां परमेश्वरि ।
महादेविमहेशानि महाशिवमये प्रिये ॥१७८॥
महानित्ये महासिद्धे त्वामहं शरणं शिवे ।
जयत्वन्त्रिपुरे देवि ललिते परमेश्वरि ॥१७९॥
सदाशिव प्रियङ्करि पाहिमां करुणानिधे ।
जगन्मातर्ज्जगद्रूपेजगदीश्वरवल्लभे ॥१८०॥
जगन्मयि जगत् स्तुत्ये गौरि त्वामहमाश्रये ।
अनाद्येसर्व्वलोकानामाद्ये भक्तेष्टदायिनि ॥१८१॥
गिरिराजेन्द्रतनये नमस्तीपुरसुन्दरि ।
जयारीञ्जयदेवेशिब्रह्ममातर्महेश्वरि ॥१८२॥
विष्णुमातरमाद्यन्ते हरमातस्सुरेश्वरि ।
ब्रह्म्यादिमातृसंस्तुत्ये सर्व्वाभरण सम्युक्ते ॥१८३॥
ज्योतिर्मयि महारूपे पाहिमां त्रिपुरे सदा ।
लक्ष्मीवाण्यादिसं पूज्ये ब्रह्मविष्णुशिवप्रिय ॥१८४॥
भजामि तव पादाब्जं देवि त्रिपुरसुन्दरि ।
त्वल्प्रीत्यर्त्थंयतः काञ्चीच्छक्तिं वैपूजयाम्यहं ॥१८५॥
ततश्च केतनां शक्तिं तर्पयामि महेश्वरि ।
तथापित्वां भजंस्तोषं चिदग्नौ च ददाम्यहं ॥१८६॥
त्वल्प्रीत्यर्त्थयं महादेवि ममाभीष्टार्त्थ सिद्धये ।
बद्ध्वात्वां खैचरीमुद्रां क्षमस्वोद्वासयाम्यहं ॥१८७॥
तिष्तमे हृदयेनित्यं त्रिपुरे परमेश्वरि ।
जगदंमहाराज्ञि महाशक्ति शिवप्रिये ॥१८८॥
हृच्चक्रे तिष्तमे नित्यं महात्रिपुरसुन्दरि ।
एतत्त्रिपुरसुन्दर्या हृदयं सर्वकामदं ॥१८९॥
महारहस्यं सततं दुर्ल्लभं दैवतैरपि ।
साक्षात्सदाशिवेनोक्तं गुह्यात् गुह्यमनुत्तमं ॥१९०॥
यः पतेत् श्रद्धया नित्यं शृणुयाद्वा समाहितः ।
नित्यपूजाफलन्देव्यास्सलभेन्नात्र संशयः ॥१९१॥
पापैः समुच्यते सद्यः कायवाक्क् सित्तसम्भवैः ।
पूर्वजन्मसमुत् भ्रदतैर्ज्ञानाज्ञकृतैरपि ॥१९२॥
सर्वक्रतुषुयत् पुण्यं सर्वतीर्त्थेषु यर्फलं ।
तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥१९३॥
अचलां लभते लक्ष्मीं त्रैलोक्येनाति दुर्लभां ।
साक्षाद्विष्णुर्महालक्ष्याशीघ्रमेव भविष्यति ॥१९४॥
अष्टैश्वर्य मवाप्नोति स शीघ्रं मानवोत्तमः ।
घण्डिकापादुकासिद्ध्यादिष्टकंशीघ्रमश्नुते ॥१९५॥

श्रीमत्त्रिपुराम्बिकायै नमः ।
॥श्रीललिताहृदयस्तोत्रं सम्पूर्णं ॥
आऊन्तत् सत् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel