अथ प्रथमः पटलः ।
ईश्वरदत्तात्रेयसंवादः
श्रीदत्तात्रेय उवाच
कैलाशशिखरासीनं देवदेव महेश्वरम्(वर्)जगद्गुरुम्
दत्तात्रेयस्तु पप्रच्छ शंकरं लोकशंकरम् ॥१॥
कृतांजलिपुटो भूत्वाऽपृच्छत्(वर्)पृच्छते
स भक्तवत्सलम् । भक्तानां च हितार्थाय तन्त्रकल्पश्च
कथ्यताम्(वर्)कल्पतन्त्रं प्रकथ्यताम् ॥२॥
कलौ सिद्धं महाकृत्यं(वर्)सिद्धिप्रदं कल्पं
तन्त्रविधाविधानकम् ।
कथयस्व महादेव देवदेव महेश्वर ॥३॥
सन्ति नानाविधा लोके यन्त्रमन्त्राभिचारकाः ।
आगमोक्ताः पुराणोक्ता वेदोक्ता डामरे तथा ॥४॥
उड्डीशे मारीततन्त्रे(वर्)मेरुतन्त्रे
च कालीचण्डीश्वरे मते(वर्)चण्डैश्वरे
तथा । राधातन्त्रे तथोच्छिष्टे(वर्)च देवेष
। धारातन्त्रे मृडेश्वरे(वर्)अमृतेश्वरे ॥५॥
ते सर्वे कीलनं कृत्वा(वर्)कीलिताश्चैव
कलौ वीर्यविवर्जिताः ।
कामक्रोधवशीभूता ब्राह्मणास्तस्य हेतबः(वर्)ब्राह्मणाः
क्रामक्रोधाढ्या एतस्मादेव कारणात् ॥६॥
विना कीलकमन्त्राश्च तन्त्राश्च कथिताः
शिव(वर्)कीलकेन विना मन्त्रान् कार्यसिद्धिप्रदान्नृनाम् ।
मन्त्रविद्या क्षणात्सिद्धिः, कृपां कृत्वा वदस्वं मे
(वर्)कथयस्व
मम प्रभो ॥७॥
ईश्वर(वर्)शिव  उवाच
श्रणु सिद्धिं महायोगिन्! सर्वयोगविशारद ।
तन्त्रविद्या महागुह्या(वर्)महागुप्तां देवानामपि
दुर्लभा ॥८॥
तवाग्रे कथिता देव(वर्)कथितो ह्येव !
तन्त्रविद्याशिरोमणिः ।
गुह्याद्गुह्या(वर्)गुह्यं  महागुह्या गुह्या
गुह्या(वर्)गुह्यं
गुह्यं गुह्यं  पुनः पुनः ॥९॥
गुरुभक्ताय दातव्या नाभक्ताय कदाचन ।
मम भक्त्येकमसे(वर्)कमनल
दृढचित्तयुताय च ॥१०॥
शिरो दद्यात्सुतं दद्यान्न दद्यात्(वर्)दद्यातन्नदद्यात्  
तन्त्रकल्पकम् ।
यस्मै कस्मै न(वर्)द दातव्यं नान्यथा मम भाषितम् ॥११॥
अथातः सम्प्रवक्ष्यामि दत्तात्रेय! तथा शृणु ।
कलौ महामन्त्रसिद्धिर्विना(वर्)सिद्धिर्महामन्त्रो विना  कीलेन
कथ्यते ॥१२॥
न तिथिर्न चक्षत्रं(वर्)च नक्षत्रं  नियमो नास्ति
वासरः ।
न व्रतं नियमो होमः कालवेलाविवर्जितम्(वर्)न जपो होमो न च
कालादिनिर्णयः ॥ १३॥
केवलं तन्त्रमन्त्रेण ह्यौषधी(वर्)ह्योषधी
सिद्धिदायिनी(वर्)सिद्धिरूपिणी ख ।
यस्याः साधनमात्रेण क्षणात्सिद्धिश्च जायते ॥१४॥
मारणं मोहनं स्तम्भो विद्वेषोच्चाटने(वर्)विद्वेषोच्चाटनं
वशम् ।
आकर्षणं चेन्द्रजालं यक्षिणीं च रसायनम् ॥१५॥
कालज्ञानमनाहारं साहारं निधिदर्शनम् ।
म्टवत्सासु वन्ध्यासु पुत्रयोगोपपादनम्(वर्)बन्ध्या पुत्रवतीयोगं
मृतवत्सासुजीवनम् ॥ १६॥
जयवादं वाजिकरं(वर्)वाजिकरणं  भूतविग्रह
निवारणम्(वर्)भूतग्रहनिवारणम् । सिंहव्याघ्र्भयं
सर्पवृश्चिकानां तथैव च ॥१७॥
निवारणं भयात्तेषां(वर्)विषादिनाशनं चैव
नान्यथा मम भाषितं ।
गोप्यं गोप्यं महागोप्यं गोप्यं गोप्यं पुनः पुनः ॥१८॥
अथ(वर्)नास्ति सर्वोपरि मन्त्रः ॐ
परब्रह्मपरमात्मने
नमः । ॐ उत्पत्तिस्थितिप्रलयकरायब्रह्म(वर्)प्रलयकारकराय
ब्रह्म हरिहराय त्रिगुणात्मने
सर्वकौतुकनिदर्शनाय
दत्तात्रेयाय नमः(वर्)सर्वकौतुकानि दर्शय दर्शय । दत्तात्रेयाय
नमः । एकलक्षजपात्सिद्धिः । अष्टोत्तरशतजपात्कार्यसिद्धिः ॥
तन्त्रसिद्धिं कुरु कुरु स्वाहा । मन्त्रजपविधिः । अयुतजपात्सिद्धिर्भवति ।
अष्टोत्तरशतजपात्कार्यसिद्धिर्भवति ॥
श्री दत्तात्रेयतन्त्रे शिवदत्तात्रेअसंवादे प्रथमः
पटलः समाप्तः ।
अथ द्वितीयः पटलः
मारणप्रयोगा(वर्)मरणाभिधानः
ईश्वर उवाच
अथाग्रे सम्प्रवक्ष्यामि प्रयोगं मारणभिधम् ।
सद्यः सिद्धिकरं नृणां शृणुष्वावहितो मुनेः ॥१॥
मारणं न व्ठा कार्यं यस्य कस्य(वर्)यस्य कदाचन ।
प्राणानां संकटे(वर्)प्राणान्तसंकटे जाते कर्तव्यं
भूतिमिच्छता ॥२॥
मूर्खण तु कृते तन्त्रे तत्स्वमेव(वर्)स्वस्मिन्नेव
समापयेत् ।
तस्माद्रक्षेत्सदात्मानं मारणं न क्वचिच्चिरेत् ॥३॥
(वर्)इदं श्लोकः षडस्ति । तस्माद्रक्ष्यः स
वात्मा हि मारणं न क्वचिच्चरेत् ।
कर्त्तव्यं मारणं चेत् स्याद्विधिक्ट्यं समाचरेत् ॥५॥ विषयुक्तं
चिताभस्म(वर्)चिन्ताभस्मसनायुक्त  
धत्तूरचूर्णसंयुतम्(वर्)संयुक्तम् ।
यस्याश्ण्गे निक्षिपेद्भौमे सद्यो याति यमालयम्
(वर्)लये ॥ ४॥ (वर्)इदं
श्लोकः चतुर्थिः ब्रह्मात्मानं तु
विततं(वर्)विदितं दृष्टवा विज्ञानचक्षुषा ।
मारणं न कार्यं नित्यमन्यथा दोषभाग्(वर्)सर्वत्र मारणं
कार्यनन्यथा दोषभाग्भवेत् ॥ ५॥
(वर्)इदं श्लोकः सप्तः भल्लातकोद्भवं तैलं
कृष्णसर्पस्य दन्तकम् ।
विषं धत्तूरसंयुक्तं यस्याश्ण्गे निक्षिपेन्मृतिः ॥६॥
(वर्)इदं श्लोकः अष्टमः नरास्थिचूर्णं
(वर्)चूर्णैः  ताम्बूले(वर्)ताम्बूलं ।
भुक्ते(वर्)भुक्तं मृत्युकरं ध्रुवम् ।
सर्पास्थिचूर्णं यस्याश्ण्गे क्षिपेन्मृत्युमवाप्नुयात् ॥७॥
(वर्)इदं श्लोकः नवमः चिताकाष्टं
गृहीत्वा तु भौमे च भरणीयुते ।
निखनेच्च गृहद्वारे मासान्मृत्युर्भविष्यति ॥८॥
(वर्)इदं श्लोकः दशमः कृष्णसर्पवसा
ग्राह्या तद्वर्तिं ज्वालयेन्निशि ।
धत्तूरबीजतैलेन कज्जलं(वर्)कज्जले  नृकपालके ॥९॥
(वर्)इदं श्लोकः एकदशमः चिताभस्मसमायुक्तं
लवणं पंचसंयुतम्(वर्)पंचसंयुक्तम् ।
यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम्(वर्)यमालये
॥ १०॥
(वर्)इदं श्लोकः द्वदशमः गृहीत्वा वार्श्चिकं
(वर्)वृश्चिकं  मांसं घूक मांससमन्वितम्
(वर्)मासमुलूकचूर्णसम्युतम् ।
यस्याश्ण्गे निक्षिपेच्चूर्णं नरो मृत्युं गमिष्यति(वर्)तस्य
तद्युर्भविष्यति ॥ ११॥
(वर्)इदं श्लोकः चतुर्दशमः घूकविष्टा तु
संग्राह्या(वर्)उल्लुविष्ठां गृहीत्वा तु
बिसचूर्णसमन्विता(वर्)विषचूर्णसमन्विताम् ।
यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम् ॥१२॥
(वर्)इदं श्लोकः पश्ण्चदशमः खरविष्ठा
तु संग्राहह्या बिसचूर्णसमन्विता(वर्) खरविष्ठां
संगृहह्य विषपूर्णसमन्वितां ।
यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम् ॥१३॥
(वर्)इदं श्लोकः त्रयदशमः लिखेत्पश्ण्चदशीयन्त्रं
चिताभस्म विलोमतः ।
श्मशानाग्नौ क्षिपेद्यन्त्रं भौमे च म्रियते रिपुः ॥१४॥
यन्त्रशक्ति
८    १    ६॥
३    ५    ७॥
४    ९    २॥
(वर्)इदं श्लोकः षडशमः रिपुविष्ठां गृहीत्वा
तु(वर्)च  नृकपाले च(वर्)तु । धारयेत् ।
उद्याने निख्यनेद्भूमौ यस्य नाम लिख्येत्स हि ॥१५॥
(वर्)इदं श्लोकः सप्तदशमः यावच्छुष्यति सा विष्ठा
तावच्छत्रुर्(वर्)शत्रूर् मृतो भवेत् । (वर्)इदं
पदं  नास्ति । (यस्मै कस्मै न दातव्यं
नान्यथा मम भाषितम्) ॥१६॥
(वर्)इदं श्लोकः अष्टदशमः कृकलासबसातैलं
(वर्) सरटस्य वसातैलं यस्याश्ण्गे बिन्दुमात्रतः ।
निःक्षिपेन्म्रियते शत्रुर्यदि शक्रोऽपि रक्षति ॥१७॥
(वर्)इदं श्लोकः नवदशमः विजया मिश्रं लवणं(वर्)
लवणं विजयायुक्तं  गृहदीपे तु निक्षिपेत् ।
यस्य नाम्ना क्षयं याति मासमध्ये न संशयः ॥१८॥
ॐ नमः कालरूपाय अमुकं(वर्)शत्रुं
भस्मी कुरु
कुरु स्वाहा ।
(वर्)एव भवतीति  नास्ति । (एक लक्षजपात्सिद्धो भवति ।
अष्टोत्तरशतजपात्कार्यसिद्धिर्भवति ।)
श्री दत्तात्रेयतन्त्रे मारणाप्रयोगः द्वित्यः पटलः समाप्तः ।
अथ तृतीयः पटलः
मोहनप्रयोगाः(वर्)मोहनाभिधानः
ईश्वर उवाच
अथाग्रे कथयिष्यामि(वर्)अथातः सम्प्रवक्ष्यामि
प्रयोगं मोहनाभिधम् ।
सद्यः सिद्धिकरं नृणां शृणु योगीन्द्र यत्नतः ॥१॥
तुलसीबीजचूर्णं तु सहदेव्या रसेन सह(वर्)च ।
रवौ यस्तिलकं कुर्यान्मोहयेत्सकलं जगत् ॥२॥
हरितालं चाश्वगन्धां पेषयेत्कदलीरसे(वर्)कदलीरसैः ।
गोरोचनेन संयुक्तं तिलके(वर्)तिलकं  लोकमोहनम् ॥३॥
शृश्ण्गि(वर्)शृश्ण्गी चन्दनसंयुक्तो
वचाकुष्ठसमन्वितः ।
धूपौ(वर्)धूपो  गेहे तथा वस्त्रे मुखे चैव विशेषतः ॥४॥
राजा प्रजा पशुपक्षि(वर्)पशुः पक्षी  दर्शनान्मोहकारकः ।
गृहीत्वा मूलताम्बूलं तिलकं लोकमोहनम् ॥५॥
सिन्दूरं कुश्ण्कुमं चैव गोरोचनसमन्वितम् ।
धात्रीरसेन सम्पिष्टं तिलकं लोकमोहनम् ॥६॥
(वर्)इदं श्लोकः  अष्टमः । सिन्दूरं च श्वेत वचा
ताम्बुलरसपेषिता(वर्)श्वेतार्कमूलं सिन्दूर येषयेर कदलीरसैः
सहदेविका ।
अनेनैव तु मन्त्रेण तिलकं लोकमोहनम् ॥७॥ (वर्)इदं श्लोकः
नवमः । अपामार्गो भृश्ण्गराजो लाजा
(वर्)भृश्ण्गराजमपामार्ग लज्जालू  च सहदेविका ।
एभिस्तु तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः ॥८॥
(वर्)इदं श्लोकः  दशमः । श्वेतदूर्वां गृहीत्वा तु
हरितालं च पेषयेत् ।
एभिस्तु तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः ॥९॥
(वर्)इदं श्लोकः  सप्तमः । मनःशिला च कर्पूरं
पेषयेत्कदलीरसे(वर्)रसैः । तिलकं मोहनं
नृणां नान्यथा मम भाषितम् ॥१०॥
अथ कज्जलविधानम्
गृहीत्वौदुम्बरं पुष्पं वर्तिं कृत्वा विचक्षणैः
(वर्)विचक्षणः ।
नवनीतेन प्रज्वाल्य कज्जलं कारयेन्निशि ॥११॥
कज्जलं चांजयेन्नेत्रे मोहयेत्सकलं(वर्)तच्च
चाज्जयेन्नेत्रे
मोहनं सर्वतो जगत् ।
यस्मै कस्मै न दातव्यं देवानामपि दुर्लभम् ॥१२॥
अथ लेपविधानम्
श्वेतगुञ्जारसे पेष्यं ब्रह्मदण्डीयमूलकम् ।
शरीरे लेपमात्रेण मोहयेत्(वर्)लेपमात्रे
शरीराणां मोहनं सर्वतो जगत् ॥१३॥
बिल्वपत्रं गृहीत्वा तु छायाशुष्कं च(वर्)तु कारयेत् ।
कपिलापयसा युक्तं(वर्)कपिलापयसम्युक्ताम्
वटीं कृत्वा तु गोलकम्(वर्)गोलकीम् ॥ १४॥
एभिस्तु(वर्)एतया
तिलकं कृत्वा मोहयेत्(वर्)मोहनम् सर्वतो
जगत् ।
क्षणेन मोहनं याति प्राणैरपि(वर्)प्राणैरपति(?)
धनैरपि ॥१५॥
श्वेतार्कमूलमादाय श्वेतचन्दनसंयुतम् ।
अनेन लेपयेद्देहं मोहयेत्सकलं(वर्)मोहनम् सर्वतो  जगत् ॥१६॥
विजयापत्रमादाय श्वेतसर्षपसंयुतम् ।
अनेन लेपयेद्देहं मोहयेत्सकलं(वर्)मोहनम् सर्वतो  जगत् ॥१७॥
गृहीत्वा तुलसीपत्रं छायाशुष्कं तु कारयेत् ।
अश्वगन्धासमायुक्तं विजयाबीजसंयुतम् ॥१८॥
कपिलादुग्धसार्द्धेन(वर्)सार्धेन  वटी
टकप्रमाणतः ।
भक्षिता प्रातरुत्थाय मोहयेत्सकलं(वर्)मोहनम्
सर्वतो  जगत् ॥१९॥
कटुतुम्बीबीजतैलेन(वर्)बीजतैलं
ज्वालयेत्पटवर्तिकाम् ।
कज्जलं चांजितं नेत्रे मोहयेत्सकलं(वर्)चाज्जयेन्नेत्रं मोहनम्
सर्वतो  जगत् ॥२०॥
पंचांगदाडिमीं(वर्)पञ्चश्ण्गां दाडिमीं
पिष्ट्वा श्वेत गुंजासमन्विताम्(वर्)गुञ्जसमान्विताम् ।
एभिस्तु(वर्)तेनैव  तिलकं कृत्वा मोहयेत्सकलं जगत् ॥२२॥
मन्त्रस्तु
ॐ नमो भगवते रुद्राय सर्वजगन्मोहनं कुरु कुरु स्वाहा ।
अथवा
ॐ नमो भगवते कामदेवाय यस्य यस्य दृश्यो भवामि
यश्च यश्च मम
मुखं पश्यति तं तं मोहयतु स्वाहा ।
विद्धिः अयुतजपात्सिद्धो भवति ।
अष्टोत्तरशतजपात्प्रयोगसिद्धो भवति ॥
इति दत्तात्रेयतन्त्रे ईश्वरदत्तात्रेयसंवादे
मोहनप्रयोगकथनं नाम तृतीयः
पटलः समाप्तः ॥३॥(वर्)श्री दत्तात्रेयतन्त्रे मोहनप्रयोगनामकः
तृतीयपटलः समाप्तः ।
अथ चतुर्थः पटलः
स्तम्भनप्रयोगाः(वर्)स्तम्भनाभिधानः
ईश्वर उवाच
अथाग्रे कथयिष्यामि प्रयोगं स्तम्भनाभिधम् ।
यस्यः साधनमात्रेण सिद्धिः करतले भवेत् ॥१॥
आताग्निस्तम्भनम्
तत्रादौ सम्प्रवक्ष्याम्यग्निस्तम्भनमुत्तमम् ।
यस्मै कस्मै न दातव्यं नान्यथा मम भाषितम् ॥२॥
वसां गृहीत्वा माण्डूकीं कौमारीरसमिश्रिताम् ।
लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥३॥
अर्कदुग्धं गृहीत्वा तु(वर्)सामादाय
कौमारीरसमिश्रितम्(वर्)कुमारी ।
लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥४॥
कदलीरसमादाय कौमारीरसमिश्रितम्(वर्)कुमारीरसपेषितम् ।
लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥५॥
मण्डूकस्य वसा ग्राह्या कर्पूरेण च(वर्)एव
संयुता ।
लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥६॥
कुमारीकन्दमादाय कदलीकन्दसंयुतम् ।
लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥७॥
कुमारीरसयुक्तेन तैलेनाभ्य्श्ण्गमाचरेत् ।
अग्निना न देहदश्ण्गमग्निस्तम्भः प्रजायते ॥८॥
कुमारीरसलेपेन किंचिद्वस्तु न दह्यते ।
अग्निस्तम्भनयोगोऽयं नान्यथा मम भाषितम् ॥९॥
पिप्पलीमरीचीशुण्डीश्चर्वयित्वा(वर्)शुण्ठी
पुनः पुनः ।
दीप्ताश्ण्गारं(वर्)दीप्ताश्ण्गारे नरैर्भुक्ते न
वक्त्रं दह्यते क्वचित् ॥१०॥
आज्यं शर्क्रया पीत्वा चर्वयित्वा(वर्)चर्ययित्क(?)
च नागरम् ।
तप्तलोहं मुख्ये क्षिप्तं न वक्त्रं दह्यते क्वचित् ॥११॥
अथाग्निस्तम्भनमन्त्रः
ॐ नमो अग्निरूपाय मम शरीरे स्तम्भनं(वर्)शरीरस्तम्भनं
कुरु कुरु स्वाहा ।
विद्धिः अयुतजपात्सिद्धिर्(वर्)सिद्धो
भवति । अष्टोत्तरशतजपात्प्रयोगसिद्धिर्
(वर्)प्रयोगाः सिद्धो भवति ॥
अथ आसानस्तम्भनम्(वर्)आसानस्तम्भनाऽभिधानम्
चर्मकारस्य कुण्डानां मलं ग्राह्यं तथा रजः ।
चकारुधिरैर्युक्तं(वर्)चटकारुधिरेर्  यस्याग्रे
तद्विनिक्षिपेत् ॥१॥ तस्य स्थाने भवेत्स्तम्भः
सिद्धयोग(वर्)सिद्धयोग
उदाहृतः ।
यस्मै कस्मै न दातव्यो नान्यथा मम भाषितम् ॥२॥
नृकपाले मृदं क्षिप्त्वा श्वेतगुञ्जां च
निर्वपेत्(वर्)श्वेतगुञ्जाफलं क्षिप्तं नृकपाले समृप्तिकम् ।
दुग्धेन तस्मिन् संसिक्ते(वर्)बलौ दत्ते तु दुग्धस्य  तस्य
वृक्षो भवेद्यति ॥३॥
तस्य शाख्या लता ग्रह्या यस्याश्ण्गे(वर्)अग्रे
तां विनिक्षिपेत् । तस्य स्थाने भवेत्स्तम्भः सिद्धयोग(वर्)सिद्धियोग
उदाहृतः ॥४॥
अथ आसनस्तम्भनमन्त्रः
ॐ नमो दिगम्बराय अमुकस्य आसनस्तम्भनं कुरु कुरु स्वाहा ।
अयुत जपान्मन्त्रः सिद्धो भवति । अष्टोत्तरशतजपात्प्रयोगः
सिद्धो भवति ।
अथ बुद्धिस्तम्भनम्(वर्)बुद्धिस्तम्भनाभिधानम् आलूक
विष्ठामादाय(वर्)उल्लूविष्टां गृहीत्वा तु
छाया शुष्कां तु कारयेत् ।
सताम्बूला प्रदातव्या बुद्धिस्तम्भनमुत्तमम् ॥१॥
भृश्ण्गराजरसैर्भाव्याः सिद्धार्थाः श्वेतनामकाः(वर्)  
प्रथमसंख्यं द्वित्य करन?॥
एभिस्तु तिलकं कृत्वा बुद्धिस्तम्भनमुत्तमम् ॥२॥
सहदेवीमपामार्गं लोहपात्रे च पेषयेत् ।
तिलकः सर्वभूतानां बुद्धिस्तम्भनमुत्तमम् ॥३॥
भृश्ण्गराजो ह्यपामार्गः सिद्धार्थाः सहदेविका ।
कोलं वचा च श्वेतार्कः सत्त्वमेषां समाहरेत् ॥४॥
लोहपात्रे विनिक्षिप्य त्रिदिनं मर्दयेद्बुधः ।
ललाटे तिलकं कुर्याच्छत्रुबुद्धिः प्रणश्यति ॥५॥
अथ बुद्धिस्तम्भनमन्त्रः
ॐ नमो भगवते शत्रूणां बुद्धिं स्तम्भय स्तम्भय स्वाहा ।
एक लक्षजपात्सिद्धो भवति मन्त्रः ।
अष्टोत्तरशतजपात्प्रयोगसिद्धिर्(वर्)सिद्धो भवति ।
अथ शस्त्रस्तम्भनम्(वर्)शस्त्रस्तम्भनाभिधानम्  पुष्यार्के
तु समुद्धृत्य विष्णुक्रान्तां समूलकाम् ।
वक्त्रे शिरसि धार्यते(वर्)धार्य तत् शस्त्रस्तम्भः प्रजायते
॥१॥
खर्जूरीमुखमध्यस्था करे बद्धा च केतकी ।
भुजदण्डस्थिते चार्के सर्वशस्त्रनिवारणम् ॥२॥
वाराहव्याघ्रभूपालचौरशत्रुभयं(वर्)ऊपाल(?)
जयेत् ।
जातिमूलं मुखे क्षिप्तं शस्त्रस्तम्भनमुत्तमम् ॥३॥
करे सुदर्शनामूलं(वर्)सुन्द्रशनं मूलं
शस्त्रस्तम्भकरं भवेत् ।
केतकीं मस्तके चैव तालमूलं(वर्)तालूमूले
मुखे स्थितम् ॥४॥
एतानि त्रीणि मूलानि चूर्णानि(वर्)चूर्णितानि
घृते पिबेत् ।
आयातानेकशस्त्राणं समूहं संनिवारयेत् ॥५॥
ख्यर्जूरी चरणे हस्ते ख्यश्ण्गस्तम्भः पेअजायते ॥६॥
पुष्यार्के तु समादाय ह्यपामार्गस्य मूलकम् ।
लेपमात्रं(वर्) लेपमात्रे
शरीराणां सर्वशस्त्रनिवारणम् ॥७॥
पुष्यार्के श्वेतगुंजाया मूलमुद्धृत्य धारयेत् ।
हस्ते शस्त्रभ्यं नास्ति सश्ण्ग्रामे न कदाचन ॥८॥
गृहीत्वा रविवारे तु बिल्वपत्रे च कोमक्लम् ।
पिष्ट्वा विषं तत्समं च लेपनाच्छस्त्रबन्धनम् ॥९॥
अथ शस्त्रस्तम्भनमन्त्रः
ॐ नमो भगवते महाबल पराक्रमाय शत्रूणां
शस्त्रस्तम्भनं कुरु कुरु स्वाहा ।
प्रयोगविधिः
एकलक्षजपान्मन्त्रः सिद्धो भवति नान्यथा ।
अष्टोत्तरशतजपात्प्रयोगः सिद्ध्यति ध्रुवम् ॥८॥
अथ शस्त्रलेपनम्
विष्णुक्रान्यीयबीजानि मन्त्रभावेन ग्राहयेत् ।
तत्तैलं ग्राहयेत्पात्रे विषं चैव समन्वितम् ॥१॥
भल्लाततैल संयुक्तं महिफेनेन संयुतम् ।
खरमूत्रं च संयुक्तं धत्तूरबीजसंयुतम् ॥२॥
तालस्य रस संयुक्तं गन्धकं च मनः शिलाम् ।
एकीकृत्य तथैतेषां वटिका क्रियते नरैः ॥३॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
Please join our telegram group for more such stories and updates.telegram channel

Books related to दत्त स्तोत्रे


विठ्ठल
महर्षी वेदव्यास रचित १८ पुराणे
नवसाला पावणारे गणपती- भाग १
श्रीमंत दगडूशेठ हलवाई गणपती
गणपती
हर हर महादेव- भाग १
नवसाला पावणारे गणपती- भाग ५
नवसाला पावणारे गणपती- भाग ३
नवसाला पावणारे गणपती- भाग ४
नवसाला पावणारे गणपती- भाग २
नामस्मरण
श्रावण
तुकाराम गाथा
गणेश चतुर्थी व्रत
संत वंकाचे अभंग