श्रीपाद श्रीवल्लभ त्वं सदैव
श्रीदत्तास्मान् पाहि देवाधिदेव ।
भवग्रहक्लेशहारिन् सुकीर्ते
घोरकष्टाद् उद्धरास्मान् नमस्ते ॥१॥
त्वं नो माता त्वं पिताप्तोऽधिपस्त्वम्
त्राता योगक्षेमकृत् सद्गुरुस्त्वम् ।
त्वं सर्वस्वं नो प्रभो विश्वमूर्ते
घोरकष्टाद् उद्धरास्मान् नमस्ते ॥२॥
पापं तापं व्याध्यादीं च दैन्यम्
भीतिं क्लेशं त्वं हराशु त्वदन्यम् ।
त्रातारं नो वीक्ष इषास्तजूर्ते
घोरकष्टाद् उद्धरास्मान् नमस्ते ॥३॥
नान्यस्त्राता न पीडान् न भर्ता
त्वत्तो देव त्वं शरण्यो शोकहर्ता ।
कुर्वत्रेय अनुग्रहं पूर्णरते
घोरकष्टाद् उद्धरास्मान् नमस्ते ॥४॥
धर्मे प्रीतिं सन्मतिं देवभक्तिं
सत्सङ्गाप्तिं देहि भुक्तिं च मुक्तिम्
भाव शक्तिं च अखिलानन्दमूर्ते
घोरकष्टाद् उद्धरास्मान् नमस्ते ॥५॥
श्लोकपञ्चकमेतद्यो  लोकमङ्गलवर्धनम् ।
प्रपत्तेन नियतो भक्त्या  स श्री दत्तप्रियो भवेत् ॥६॥
इति श्रीमत् परमहंस परिव्राजकाचार्य
श्रीमद् वासुदेवानन्द सरस्वती स्वामी विरचितं
घोर कष्टोद्धारण स्तोत्रं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel