॥ॐ ॥
दत्तात्रेयं प्रियदैवतं सर्वात्मकं विश्वम्भरम् ।
करुणार्णवं विपदाहरं चिन्मयं प्रणमाम्यहम् ॥१॥
बालरूपं हास्यवदनं शंखचक्रयुतं प्रभुम् ।
धेनुसहितं त्रिशुलपाणिं चिन्मयं प्रणमाम्यहम् ॥२॥
षड्भुजं स्तवनप्रियं त्रिगुणात्मकं भवतारकम् ।
शिवकारकं सुरवंदितं चिन्मयं प्रणमाम्यहम् ॥३॥
प्रणवगायनतोषितं प्रणवपद्मैः पूजितम् ।
प्रणवात्मकं परमेश्वरं चिन्मयं प्रणमाम्यहम् ॥४॥
कोटिभास्करसदृशं तेजस्विनं तेजोमयम् ।
सद्गुरूं गुरूणां गुरूं चिन्मयं प्रणमाम्यहम् ॥५॥
विश्वनाटकचालकं ज्ञानगम्यं निर्गुणम् ।
भक्तकारणसम्भूतं चिन्मयं प्रणमाम्यहम् ॥६॥
बालयोगिध्यानमग्नं त्रिविधतापनिवारकम् ।
दीननाथं सिद्धिदं चिन्मयं प्रणमाम्यहम् ॥७॥
जनकजननीबंधुसुहृदाः आप्तसर्वास्त्वं मम ।
एहि एहि स्मर्तृगामिन् चिन्मय प्रकटी भव ॥८॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel