अम्ब शशिबिम्बवदने कम्बुग्रीवे कठोरकुचकुम्भे । अम्बरसमानमध्ये शम्बररिपुऐरिदेवि मां पाहि ॥ १ ॥
कुन्दमुकुलाग्रदन्ता कुंक्मपङ्केन लिप्तकुचभाराम् । आनीलनीलदेशामम्बामखिलाण्डनायकीं वन्दे ॥ २ ॥
सारेगमपध्निसान्तां वीणासंक्रान्तचारुहस्तां ताम् । शान्तां मृदुलस्वन्त:कुचभरतान्तां नमामि शिवकान्ताम् ॥ ३ ॥
अरटतघटितजुटीताडिततालीकपारताटङ्काम् । वीणावादनवेलाकम्पितशिरस नमामि मातङ्गीम् ॥ ४ ॥
शीणारसानुषङ्ग विकचमदामोदमाधुरीभृङ्गम् । करुणापूरितरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ५ ॥
दयामानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् । वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ ६ ॥
माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् | माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ ७ ॥
इति श्रीकालिकायां देवीषट्‌कं समाप्तम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel