नारायण उवाच ।

वरं वरेण्यं वरदं वरार्हं वरकारणम् ।
कारणं कारणानां च कर्म तत्कर्मकारणम् ॥१॥

तपस्तत्फ्लदं शश्वत्तपस्वीशं च तापसम् ।
वन्दे नवघनश्यामं स्वात्मारामं मनोहरम् ॥२॥

निष्कामं कामरूपं च कामघ्नं कामकारणम् ।
सर्वे सर्वेश्वरं सर्वबीजरूपमनुत्तमम् ॥३॥
वेदरूपं वेदबीजं वेदोक्तफलदं फलम् ।
वेदज्ञं तद्विधानं च सर्ववेदविदां वरम् ॥४॥

इत्युक्त्वा भक्तियुक्तश्च स उवास तदाज्ञया ।
रत्नसिंहासने रम्ये पुरतः परमात्मनः ॥५॥

नारायणकृतं स्तोत्रं यः पठेत्सुसमाहितः ।
त्रिसंध्यं यः पठेन्नित्यं पापं तस्य न विधते ॥६॥

पुत्रार्थी लभते पुत्रं भार्यार्थी लभते प्रियाम् ।
भ्रष्टराज्यो लभेद्राज्यं धनं भ्रष्टधनो लभेत् ॥७॥

कारागारे विपद्ग्रस्तः स्तोत्रेनानेन मुच्यते ।
रोगात्प्रमुच्यते रोगी वर्ष श्रुत्वा च संयतः ॥८॥

इति ब्रह्मावैवर्ते नारायणकृतं श्रीकृष्णस्तोत्रम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel