सरस्वत्युवाच ।

रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥१॥

रासेश्वरं ऱासकरं वरं ऱासेश्वरीश्वरम् ।
ऱसाधिष्ठातृदेवं च वन्दे ऱासविनोदिनम् ॥२॥

रासायासपरिश्रान्तं रासरासविहारिणम् ।
रासोत्सुकानां गोपीनां कान्तं शान्तं मनोहरम् ॥३॥

प्रणम्य च तमित्युक्त्वा प्रह्यष्टवदना सती ।
उवास सा सकामा च रत्नसिंहासने वरे ॥४॥

इति वाणीकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
बुद्धिमान्धनवान्सोऽपि विद्यावान्पुत्रवान्सदा ॥५॥

इति ब्रह्मावैवर्ते सरस्वतीकृतं श्रीकृष्णस्तोत्रम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
Please join our telegram group for more such stories and updates.telegram channel

Books related to कृष्ण स्तोत्रे