श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितः
श्री कृष्णजयन्ती निर्णयः

रोहिण्या मध्यरात्रे तु यदा कृष्णाष्टमी भवेत्  ।
जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशनं ॥१॥

यस्यां जातो हरिः साक्षान्नि शेते भगवानजः  ।
तस्मात्तद्दिनमत्यर्थं पुण्यं पापहरं शुभपरं ॥२॥

तस्मात्सर्वैर्रुपोश्या सा जयन्ती नाम सा(वै)सदा  ।
द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः ॥३॥

यो भुङ्क्ते तद्दिने मोहा(लोभा)त् पूयशोणितमत्ति सः  ।
तस्मादुपवासेन्नित्य(पुण्य)ं तद्दिने(नं)श्रद्धयान्वितः ॥४॥

कृत्वा शौचं यथा न्यायं स्नानं कुर्यादतंद्रितः  ।
प्रभात काले कुर्वीत योओगायेत्यादिमन्त्रतः ॥५॥

नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन्  ।
मध्याह्न काले च पुमान् सायङ्काले त्वतन्द्रितः ॥६॥

स्नायेत पूर्वमन्त्रेण वासुदेवमनुस्मरन्  ।
ततः पूजां प्रकुर्वेत विधिवत्सुसमाहितः ॥७॥

यनायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान्  ।
कृष्णं च बलभद्रं च वसुदेवं च देवकीं ॥८॥

नन्दगोपं यशोदाञ्च सुभद्रां तत्र पूजयेत्  ।
(अर्घ्यं दत्वा समभ्यच्यार्भ्युधिते शशिमण्डले)।
जातः कंसवधार्ताय भूभारोत्थारणाय च ॥९॥

कौरवानां विनाशाय दैत्यानां निधनाय च  ।
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ॥१०॥

गृहाणर्घ्यं मया दत्तं देवक्या सहितो हरिः  ।
अर्घ्यं दत्वासमभ्यर्च्याभ्युदिते शशिमण्डले ॥११॥

क्षीरोदार्णवसम्भूत अत्रिनेत्र समुद्भवः  ।
गृहाणर्घ्यं मया दत्तं रोहिण्या सहितः शशिम् ॥१२॥

दत्वार्घ्यं मनुनानेन उपस्थाय विधुं बुधः  ।
शशिने चन्द्रदेवाय सोमदेवाय छेन्दवे ॥१३॥

मृगिणे शी(सि)त बिंबाय लोकदीपाय दीपिणे  ।
(रोहिणीसक्तचित्ताय कन्यादानप्रदायिने)
शीतदीदितिबिंबाय तारकापतये नमः ॥१४॥

उपसम्हृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः  ।
विश्वायेति च मन्त्रेण ततः स्वापं समाचरेत् ॥१५॥

ततो नित्यान्हि कं कृत्वा शक्तितो दीयतां धनं  ।
सर्वायेति च मन्त्रेण ततः पारणमाचरेत्  ।
धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः ॥१६॥

॥इति श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितं॥
॥जयन्ती निर्णयः संपूर्णम्॥

भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel