कदाचित्कालिंदीतटविपिनसङ्गीतकरवो मुदाभीरीनारीवदनकमलास्वादमधुपः ।
रमाशंभुब्रह्मामरपतिगणेशार्चितपदो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ १ ॥
भुजे सव्ये वेणुं शिरसि शिखिपिच्छंकटितटे दुकूलं नेत्रांते सहचरकटाक्षं विदधते ।
सदा श्रीमद्‌वृन्दावनवसतिलीलापरिचयो जगनाथः स्वामी० ॥ २ ॥
महांभोधेस्तीरे कनकरुचिरे नीलशिखएर वसन्प्रासादांतः सहजबलभद्रेण बलिना ।
सुभद्रामध्यस्थः सकलसुरसेवावसरदो जगन्नाथः स्वामी० ॥ ३ ॥
कथापारावारः सज्लजलदश्रेणिरुचिरो रमावाणीरामस्फुरदमलपद्मेक्षणमुखैः ।
सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो जगन्नाथ० स्वामी० ॥ ४ ॥
रथारूढो गच्छन्पथि मिलितभूदेवपटलौः स्तुतिप्राद्रुर्भावं प्रतिपदमुपाकर्ण्य सदयः ।
दयासिंधुर्बुंधुः सकलजगतां सिंधुसुतया जगन्नाथः स्वामी० ॥ ५ ॥
परब्रह्मापीड्यः कुवलदलोत्फुल्लनयनो निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि ।
रसानंदो राधासरसवपुरालिंगनसुखो जगन्नाथः स्वामी० ॥ ६ ॥
न वै प्रार्थ्य राज्यं न च कनकतां भोगविभवं न याचेऽहं रम्या निखिलजनकाम्यां वरवधूम् ।
सदा काले काले प्रमथपतिना गीतचरितो जगन्नाथः स्वामी० ॥ ७ ॥
हर त्वं संसारं द्रुततरमसारं सुरपते । हर त्वं पापानां विततिमपरां यादवपते ।
अहो दीनानाथं निहितमचलं निश्चितपदं जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८ ॥
इति जगन्नाथाष्टकं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel