मोहिन्युवाच ।
सर्वेन्द्रियाणां प्रवरं विष्णोरंशं च मानसम् । तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते ॥ १ ॥
स्वयमात्मा हि भगवान् ज्ञानरूपो महेश्वरः । नमो ब्रह्मन् जगत्स्रष्टस्तदुद्भव नमोऽस्तु ते ॥ २ ॥
सर्वाजित जगज्जेतर्जीवजीव मनोहर । रतिबीज रति स्वामिन् रतिप्रिय नमोऽस्तु ते ॥ ३ ॥
शश६वद्योषिदधिष्ठान योषित्प्राणाधिकप्रिय योषिद्वाहन योषास्त्र योषिद्धन्धो नमोऽस्तु ते ॥ ४ ॥
पतिसाध्यकरा शेषरूपधार गुणाश्रय । सुगंधिवातसचिव मधुमित्र नमोऽस्तु ते ॥ ५ ॥
शश्‍वद्योनिकृताधार स्त्रीसंदर्शनवर्धन । विदग्धानां विरहिणां प्राणांतक नमोऽस्तु ते ॥ ६ ॥
अकृपा येषु तेऽनर्थं तेषां ज्ञानं विनाशनम् । अनूहरूप भक्तेषु कृपासिंधो नमोऽस्तु ते ॥ ७ ॥
तपस्विनां च तपसां विघ्नबीजया लीलया । नमः सकामं मुक्तानां कर्तु शक्त नमोऽस्तु ते ॥ ८ ॥
तपःसाध्यस्तथाऽऽराध्यः सदैवं पाञ्चभौतिकः । पञ्चेन्द्रियकृताधार पञ्चबाण नमोऽस्तु ते ॥ ९ ॥
मोहिनीत्येवमुक्त्वा तु मनसा सा विधेः पुरः । विरराम नम्रवक्रा बभूव ध्यानतत्परा ॥ १० ॥
उक्तं मध्यंदिने कान्ते स्तोत्रमेतन्मनोहरम् । पुरा दुर्वाससा दत्तं मोहिन्यै गंधमादने ॥ ११ ॥
स्तोत्रमेतन्महापुण्यं कामी भक्त्या यदा पठेत् । अभीष्टं लभते नूनं निष्कलंको भवेद् ध्रुवम् ॥ १२ ॥
चेष्टां न कुरुते कामः कदाचिदपि तं प्रियम् । भवेदरोगी श्रीयुक्तः कामदेवसमप्रभः ।
वनितां लभते साध्वीं पत्‍नीं त्रैलोक्यमोहिनीम् ॥ १३ ॥
इति श्रीमोहिनीकृतकृष्णस्तोत्रं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel