चतुर्मुखादिसंस्तुतं समस्तसात्त्वतानुतम् । हलायुधादिसंयुतं नमामि राधिकाधिपम् ॥ १ ॥
बकादिदैत्यकालकं सगोपगोपिपालकम् । मनोहरासितालकं नमामि राधिकाधिपम् ॥ २ ॥
सुरेंद्रगर्वगंजनं विरिंचिमोहभंजनम् । व्रजांगनानुरंजनं गजेन्द्रदंतखंडनम् ।
नृशंसकंसदण्डनं नमामि राधिकाधिपम् ॥ ३ ॥
प्रदत्तविप्रदारकं सुदामधामकारकम् । सुरद्रुमापहारकं नमामि राधिकाधिपम् ॥ ४ ॥
धनंजयाजयावहं महाचमूक्षयावहम् । पितामहव्यथापहं नमामि राधिकाधिपम् ॥ ५ ॥
मुनींद्रशापकारणं यदुप्रजापहारणम् । धराभरावतारनं नमामि राधिकाधिपम् ॥ ६ ॥
सुवृक्षमूलशायिनं मृगारिमोक्षदायिनम् । स्वकीयधाममायिनं नमामि राधिकाधिपम् ॥ ७ ॥
इदं समाहितो हितं वराष्टकं सदा मुदा । जपञ्जनो जनुर्जरादितो द्रुतं प्रमुच्यते ॥ ८ ॥
इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीकृष्णाष्टकं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel