गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥१॥

अJण्जनानन्दनंवीरं जानकीशोकनाशनम् ।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥२॥

महाव्याकरणाम्भोधिमन्थमानसमन्दरम् ।
कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ॥३॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राJण्जलिराJण्जनेयम् ॥४॥

मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥५॥

आJण्जनेयमतिपाटलाननं
काJण्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमृलवासिनं
भावयामि पवमाननन्दनम् ॥६॥

यत्र यत्र रघुनाथकीर्तनं
तत्र तत्र कृतमस्तकाJण्जलिम् ।
बाष्पवारिपरिपूर्णलोचनं
मारुतिर्नमत राक्षसान्तकम् ॥७॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel