गोष्पदी-कृत-वारीशं मशकी-कृत-राक्षसम् । रामायण-महामाला-रत्नं वन्देऽनिलात्मजम् ॥१॥
अञ्जना-नन्दनं-वीरं जानकी-शोक-नाशनम् । कपीशमक्ष-हन्तारं वन्दे लङ्का-भयङ्करम् ॥२॥
महा-व्याकरणाम्भोधि-मन्थ-मानस-मन्दरम् । कवयन्तं राम-कीर्त्या हनुमन्तमुपास्महे ॥३॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोक-वह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥४॥
मनोजवं मारुत-तुल्य-वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानर-यूथ-मुख्यं श्रीराम-दूतं शिरसा नमामि ॥५॥
आञ्जनेयमतिपाटलाननं काञ्चनाद्रि-कमनीय-विग्रहम् । पारिजात-तरु-मूल-वासिनं भावयामि पवमान-नन्दनम् ॥६॥
यत्र रघुनाथ-कीर्तनं तत्र तत्र कृत-मस्तकाञ्जलिम् । बाष्प-वारि-परिपूर्ण-लोचनं मारुतिर्नमत राक्षसान्तकम् ॥७॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel