श्रीगणेशाय नम: ॥

आदौ कर्म प्रसंगात् कलयति कलुषं मातृकुक्षौस्थितंमांविण्मूत्रामेध्यमध्येक्वथयतिनितरांजाठरोजातवदा: ।

यद्यद्वै तत्र दु:खं व्यथयति नितरां शक्यते केन वक्‍तुं क्षंतव्यो मेऽपराध: शिवशिव शिवभो:श्रीमहादेवशम्भो ॥ १ ॥

बाल्ये दु:खा तिरेकान्मललुलितवपु: स्तन्यपान पिपासा नो शक्‍तिश्‍चेंद्रियेभ्यो भवगुनजनिता जंतवो मां तुदम्ति । नानारोगादिदु:खाद्रुदनपरवश: शंकरं न स्मरामि क्षंतव्यो मेऽपराध: शिव शिव० ॥ २ ॥

प्रौढोऽहं यौवनस्थो विषयविषधरै: पञ्चभिर्मर्मसंधौ दष्टो नष्टो विवेक: सुतधनयुवतिस्वादसौख्ये निषष्ण: ।

शैवीचिंताविहीनं मम ह्रदयमहोमानगर्वाधिरूढं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ३ ॥

वार्धक्ये चेंद्रियाणां विगत गतिमतिश्‍चाधिदैवाधितापे: रोगैर्वियोगैस्त्वनवसितवपु: प्रौढिहीनं च दीनम् ।

मिथ्यामोहाभिलाषैर्भ्रमतिमम मनो धुर्जटेर्ध्यानशून्यं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ४ ॥

नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौत वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे सुसारे ।

ज्ञातो धर्मो विचारै: श्रवणमननयो: किं निदिध्यासितव्यं क्षंतव्यो मेऽपराध: शिव० ॥ ५ ॥

स्नात्वा प्रत्यूषकाले स्नपनविधि विधौ नाह्रतं गांगतोयं पूजार्थं वा कदाचिद्बहुतरगहनात्खंडबिल्वीदलानि ।

नानीता पद्ममाला सर्सि विकसिता गन्धपुष्पैस्त्वदर्थं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ६ ॥

दुग्धैर्मध्वाज्ययुक्‍तैर्दधिसितसहितै:स्नापितं नैव लिंगं नो लिप्तं चंदनाद्यै: कनक विरचितं पूजितं न प्रसूनै: । धूपै:कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारै: क्षंतव्यो मेऽपराध: शिव शिव० ॥ ७ ॥

ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमंत्रै: ।

तो तप्तं गांगतीरे व्रत जपनियमैरुद्रजाप्यैर्न वेदै: क्षंतव्यो मेऽपराध: शिव शिव० ॥ ८ ॥

स्थित्वा स्थाने सरोजे प्रशवमयमरूत्कुंडले सूक्ष्ममार्गे शांतेस्वांते प्रलीने प्रकटितविभवे ज्योतिरूपे पराख्ये ।

लिंगज्ञे ब्रह्मवाक्ये सकलतनुगत शंकरं न स्मरामि क्षंतव्योमेऽपराध: शिव शिव० ॥ ९ ॥

नग्नो नि:संगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहांधकारो नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्ट: कदाचित् ।

उन्मन्याऽवस्थया त्वां विगतकलिमलं शंकरं न स्मरामि क्षंतव्यो मेऽपराध: शिव शिव० ॥ १० ॥

चन्द्रोद्भासिशेखरे स्मरहरे गंगाधरे शंकरे सर्पैर्भूषितकंठकर्णविवरे नेत्रोत्थवैश्‍वानरे ।

दंतित्व क्कृतसुंदरांबरधरे त्रैलोक्यसारे हरे मोक्षार्थं कुरु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभि; ॥ ११ ॥

किंवाऽनेन धनेन वाजिकरिभि: प्राप्तेन राज्येन किं किंवा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।

ज्ञात्वैतत्क्षण भंगुरं सपदि रे त्याजं मनो दूरत: स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १२ ॥

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायांतिगता: पुनर्न दिवसा: कालोजगद्भक्षक: ।

लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं तस्मान्मांशरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ १३ ॥

करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।

विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो ॥ १४ ॥

इति श्रीमच्छंकराचार्य विरचितं शिवापराधक्षमापनस्तोत्रं सम्पूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel