श्रीगणेशाय नम: ॥ ॐ अस्य श्रीविष्णुपञ्जरस्तोत्रमंत्रस्य नारद ऋषि: । अनुष्टुप् छन्द: ।

श्रीविष्णु: परमात्मा देवता । अहं बीजम् । सोऽहं शक्ति: । ॐ ह्रीं कीलकम् ।

मम सर्वदेहरक्षणार्थे जपे विनियोग: ॥ नारद ऋषये नम: शिरसि । अनुष्टुप् छन्दसे नम: मुखे ।

श्रीविष्णुपरमात्मदेवतायै नम: ह्रदये । अहं बीजं गुह्ये । सोऽहं शक्ति: पादयो: । ॐ ह्रीं कीलकं पादाग्रे ।

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्र: इति मन्त्र: । ॐ ह्रां अंगुष्ठाभ्यां नम: । ॐ ह्रीं तर्जनीभ्यां नम: ।

ॐ ह्रूं मध्यमाभ्यां नम: । ॐ ह्रैं अनामिकाभ्यां नम: । ॐ ह्रौं कनिष्ठिकाभ्यां नम: ।

ॐ ह्र: करतलकरपृष्ठाभ्यां नम: । इति करन्यास: ॥ अथ ह्रदयादिन्यास: ॥ ॐ ह्रां ह्रदयाय नम: ।

ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायै वषट् । ॐ ह्रैं कवचायहुम् । ॐ ह्रौं नेत्रत्रयाय वौषट् ।

ॐ ह्र: अस्त्राय फट् ॥ इति अंगन्यास: ॥ अहंबीजादिमन्त्रत्रयेण प्राणायामं कुर्यात् । अथ ध्यानम् ।

परं परस्मात्प्रकृतेरनादिमेकं निविष्टं बहुधा गुहायाम् । सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथम् ॥ १ ॥

ॐ विष्णुपंजरकं दिव्यं सर्वदुष्टनिवारणम् । उग्रतेजो महावीर्य सर्वशत्रुनिकृंतनम् ॥ २ ॥

त्रिपुरं दहमानस्य हरस्य ब्रह्मणोदितम् । तदहं संप्रवक्ष्यामि आत्मरक्षाकरं नृणाम् ॥ ३ ॥

पादौ रक्षतु गोविंदो जंघे चैव त्रिविक्रम: । ऊरू मे केशव: पातु कटिं चैव जनार्दन: ॥ ४ ॥

नाभिं चैवाच्युत: पातु गुह्यं चैव तु वामन: । उदरं पद्मनाभश्च पृष्ठं चैव तु माधव: ॥ ५ ॥

वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदन: । बाहू वै वासुदेवश्च ह्रदि दामोदरस्तथा ॥ ६ ॥

कंठं रक्षतु वाराह: कृष्णश्च मुखमंडलम् । माधव: कर्णमूले तु ह्रषीकेशश्च नासिके ॥ ७ ॥

नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वज: । कपोलौ केशवो रक्षेद्वैकुंठ: सर्वतो दिशम् ॥ ८ ॥

श्रीवत्सांकश्च सर्वेषामंगानां रक्षको भवेत । पूर्वस्यां पुंडरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥ ९ ॥

दक्षिणे नारसिंहश्च नैऋत्यां माधवोऽवतु । पुरूषोत्तमो मे वारुण्यां वायव्यां च जनार्दन: ॥ १० ॥

गदाधरस्तु कौबेर्यामीशान्यां पातु केशव: । आकाशे च गदा पातु पाताले च सुदर्शनम् ॥ ११ ॥

सन्नद्ध: सर्वगात्रेषु प्रविष्टो विष्णुपंजर: । विष्णुपञ्जरविष्टोऽहं विचरामि महीतले ॥ १२ ॥

राजद्वारेऽपथे घोरे संग्रामे शत्रुसंकटे । नदीषु चरणे चैव चोरव्याघ्रभयेषु च ॥ १३ ॥

डाकिनीप्रेतभूतेषु भयं तस्य न जायते । रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥ १४ ॥

रक्षंतु देवता: सर्वा ब्रह्मविष्णुमहेश्वरा: । जले रक्षतु वाराह: स्थले रक्षतु वामन: ॥ १५ ॥

अटव्यां नारसिंहश्च सर्वत: पातु केशव: । दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चन्द्रमा: ॥ १६ ॥

पंथानं दुर्गमं रक्षेत्सर्वमेव जनार्दन: । रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पग: ॥ १७ ॥

स्त्रीहंता बालघाती च सुरापो वृषलीपति: । मुच्यते सर्वपापेभ्यो य: पठेन्नात्र संशय: ॥ १८ ॥

अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥ १९ ॥

आपदो हरते नित्यं विष्णुस्तोत्रार्थसंपदा । यस्त्विदं पठते स्तोत्रं विष्णुपंजरमुत्तमम् ॥ २० ॥

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति । गोसहस्त्रफलं तस्य वाजपेयशतस्य च ॥ २१ ॥

अश्वमेधसहस्त्रस्य फलं प्राप्नोति मानव: । सर्व कामं लभेदस्य पठनान्नात्र संशय: ॥ २२ ॥

जले विष्णु: स्थले विष्णुर्विष्णु : पर्वतमस्तके । ज्वालामालाकुले विष्णु: सर्व विष्णु:मयं जगत् ॥ २३ ॥

इति श्रीब्रह्मांडपुराणे इंद्रनारदसंवादे श्रीविष्णुपंजरस्तोत्रं संपूर्णम् ।

N/A
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
Please join our telegram group for more such stories and updates.telegram channel

Books related to विष्णु स्तोत्रे


शिव-परिवार प्रतिमेचे रहस्य
मराठी WhatsApp मेसेजेस
कांकड आरती
श्रीज्ञानेश्वर महाराजांचा हरिपाठ
हनुमान जयंती
श्रीएकनाथी भागवत
कृष्ण – कर्ण संवाद
नागमणी एक रहस्य
संताच्या जीवनातील प्रेरक प्रसंग -भाग पहिला
इच्छापूर्ती शाबरी मंत्र
सार्थ श्रीसत्यनारायण पूजा कथा
इन्फिनिटी
मध्वमुनीश्वर कृत गणपतीचीं पदें