श्रीगणेशाय नम: ॥

जगदादिमनादिमजं पुरुषं शरदंबरतुल्यतनुं वितनुम् ।

धृतकंजरथांगगदं विगदं प्रणमामि रमाधिपतिं तमहम् ॥ १ ॥

कमलाननकंजरतं विरतं ह्रदि योगिजनै: कलितं ललितम् । कुजनै: सुजनैरलभं सुलभं प्रण० ॥ २ ॥

मुनिवृन्दह्रदिस्थपदं सुपदं निखिलाध्वरभागभुजं सुभुजम् । ह्रतवासवमुख्यमदं विमदं प्रण० ॥ ३ ॥

ह्रतदानवदृप्तबलं सुबलं स्वजनास्तसमस्तमलं विमलम् । समपास्त गजेंद्रदरं सुंदरं प्रण० ॥ ४ ॥

परिकल्पितसर्वकलं विकलं सकलागमगीतगुणं विगुणम् । भवपाशनिराकरणं शरणं प्रण० ॥ ५ ॥

मृतिजन्मजराशमनं कमनं शरणागतभीतिहरं दहरम् । परितुष्टरमाह्रदयं सुदयं प्रण० ॥ ६ ॥

सकलावनिबिंबधरं स्वधरं परिपूरितसर्वदिशं सुदृशम् । गतशोकमशोककरं सुकरं प्रण० ॥ ७ ॥

मथितार्णवराजरसं सरसं ग्रथिताखिललोकह्रदं सुह्रदम् । प्रथिताद्‌भुतशक्तिगणं सुगणं प्रण० ॥ ८ ॥

सुखराशिकरं भवबंधहरं परमाष्टकमेतदनन्यमति: ।

पठतीह तु योऽनिशमेव नरो लभते खलु विष्णुपदं स परम् ॥ ९ ॥

इति श्रीपरमहंसस्वामि ब्रह्मानंदविरचितं श्रीरमापत्यष्टकं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel