श्रीगणेशाय नम: ।

औषधेचिन्तयेद्विष्णुं भोजने च जनार्दनम् । शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ १ ॥

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् । नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥ २ ॥

दु:स्वप्ने स्मर गोविन्दं संकटे मधुसूदनम् । कानने नारसिंहं च पावके जलशायिनम् ॥ ३ ॥

जलमध्ये वराहं च पर्वते रघुनन्दनम् । गमने वामनं चैव सर्वकार्येषु माधवम् ॥ ४ ॥

षोडशैतानि नामानि प्रातरुत्थाय य: पठेत् । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ५ ॥

इति श्रीविष्णो: षोडशनामस्तोत्रं सम्पूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel