श्रीगणेशाय नमः ।

ह्ममहेन्द्रसुरेन्द्रमरुद्‌गणरुद्रमुनीन्द्रगणैरतिरम्यं क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम् ।

भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्धनमूर्ति त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदांबुजदास्यम् ॥ १ ॥

पद्मदलायतलोचन हे रघुवंशविभूषण देव दयालो निर्मलनीरदनीलतनोऽखिललोकह्रदंबुजभासकभानो । कोमलगात्रपवित्रपदाब्जरजःकणपावितगौतमकान्तं त्वां भजतो० ॥ २ ॥

पूर्णपरात्पर पालयमामतिदीनमनाथमनन्त सुखाब्धे प्रावृडदभ्रतडित्सुमनोहरपीतवरांबर |

राम नमस्ते कामविभंजन कांततरानन काञ्चनभूषण रत्‍नकिरीटं त्वां भजतो० ॥ ३ ॥

दिव्यशरच्छशिकांतिहरोज्जवलमौक्तिकमालविशालसुमौले कोटिरविप्रभचारुचरित्र पवित्रविचित्रधनुःशरपाणे । चण्डमहाभुजदण्डविखण्डितराक्षसराजमहागजदण्डं त्वां भजतो० ॥ ४ ॥

दोषविहिंस्त्र भुजंगसहस्त्रसुरोषमहानलकीलकलापे जन्मजरामरणोर्मिमनोमदमन्मथनक्रविचक्रभवाब्धौ ।

दुःखनिधौ च चिरं पतितं कृपयाऽद्य समुद्धर राम ततो मां त्वां भजतो० ॥ ५ ॥

संसृतिघोरमदोत्कटकुंजरतृट्‌क्षुदनीरदपिंडिततुण्डं दण्डकरोन्मथितं च रजस्तम उन्मदमोहपदोज्झितमार्तम् ।

दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढं त्वां भजतो० ॥ ६ ॥

जन्मशतार्जितपापसमन्वितह्रत्कमले पतिते पशुकल्पे हे रघुवीर महारणधीर दयां कुरु मय्यतिमंदमनीषे ।

त्वं जननी भगिनी च पिता मम तावदसि त्वविताऽपि कृपालो त्वां भजतो० ॥ ७ ॥

त्वां तु दयालुमकिंचनवत्सलमुत्पलहारमपारमुदारं राम विहाय कमन्यमनामयमीश जनं शरणं ननु यायाम् ।

त्वत्पदपद्ममतः श्रितमेव मुदा खलु देव सदाऽव ससीतं त्वां भजतो० ॥ ८ ॥

यः करुणामृतसिंधुरनाथजनोत्तमबंधुरजोत्तमकारी भक्तभयोर्मिभवाब्धितरी सरयूतटिनीतटचारुविहारी ।

तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं वै यस्तु पठेदमरः । स नरो लभतेऽच्युतरामपदांबुजदास्यम् ॥ ९ ॥

इति श्रीमन्मधुसूदनाश्रमशिष्याच्युतयतिविरचितं श्रीमत्सीतारामाष्टकं संपूर्णम् ।

इति रामस्तोत्राणि ॥ १३ ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel