१.

श्रीमद्रामपदारविन्दमधु ये भृङगाः सरागा अमी ।

सेवन्ते सनकाः शुकादिमुनयस्तेषां न काचित्स्पृहा ॥

श्रीमद्रामपदारविन्दमधुनो जानन्ति वै ते रसम् ।

तत्स्वादात्परसौख्यदा भवति या सा स्यात्‍स्थितिर्नः सदा ॥

२.

ईशावास्यमिदं जगद्‌भवति भो जीवाः सुखान्वेषकाः ।

नास्त्यस्मिन्सुखलेश इत्यत इह ब्रूते श्रुतिर्मा गृधः ॥

भुज्जीथा नितरां च रामपदवीं त्यक्‍तेन तेनाधुना ।

मोहो नास्ति न शोक इत्यपि भवेदेकात्मतादर्शने ॥

३.

शिष्यः पृच्छति केन खानि च मनः प्राणा गुरो चेशिताः ।

यच्छ्रोत्रं श्रवणस्य वाक्च वचसश्‍चित्तस्य चेतोऽपि तत् ॥

चक्षुर्गच्छति नो मनो न च वचो यत्रास्ति तत्को वदेत् ।

एतत्तत्प्रभुरामरुपमगुणं यक्षात्मकं सर्वभृत् ॥

४.

श्रेयः प्रेय इति द्वयं खलु तयोस्तच्छ्रेय एवाभयम् ।

धीरो यस्तु विरक्‍त चित्तविलसन् धन्यः कृती चात्मवित् ॥

सूर्याचंद्रमसौ न यत्र हुतभुग् रामस्य तस्मिन पदे ।

शुद्धे शुद्धजलं यथा भवति स स्वात्मैव वक्‍ति श्रुतिः ॥

५.

तं वेद्यं पुरुषं हि वेदनपरं वेद्यं न तन्मृत्युभीः ।

योऽस्यामेव तनौ विभाति सततं शुभ्‍रो भवत्यक्षरः ॥

यज्ज्ञात्वा मुदमश्‍नुतेऽत्र सकलं भद्रञ्च सर्वज्ञताम् ।

तच्छ्रीरामपदस्वरुपममलं ज्ञेयं च गेयं पुनः ॥

६.

यज्ज्ञानाद्विदितं जगत्तदविकृद्रामस्वरुपं स्वयम् ।

विज्ञाय स्वगुरोर्मुखात्परमितो भिन्नं न वेत्ति क्वचित् ॥

सिन्धुं प्राप्य यथा न मुञ्चति नदी विद्वान परं विन्दते ।

यो वै तत्परमं च वेद सततं ब्रह्मैव स ब्रह्मवित् ॥

७.

ॐकारं व्यभजच्छुतिर्वदति तद्‌भूतं भविष्यद् भवत् ।

जीवेशौ च विभावयत्यपि पुनर्ब्रूते तयोरेकताम् ॥

यज्ज्ञात्वा नितरामभिन्नपदवीं प्राप्‍नोत्यमात्रां शिवाम् ।

शुद्धं तुर्यमिदं स्फुटं परमिति श्रीरामभद्रोऽव्ययः ॥

८.

संसारस्य च रेरिवा मम तु या कीर्तिर्गिरेरुन्नता ।

यत्तूर्ध्वं जगतोऽस्य मूलमिति तद् ब्रह्मात्र मद्रूपकम् ॥

यज्ज्ञात्वा स्वमृतं परं विभुरहं ब्रूते त्रिशङकुर्यतः ।

तच्छ्रीरामपदारविन्दभजने किं वा भवेद्दुर्घटम् ॥

९.

आनन्दान्समुदीर्य यान्बहुविधान् ब्राह्मान् परांश्‍चापरान् ।

सत्यं ज्ञानमनन्तमक्षरमहं यो वेद निष्कामतः ॥

सर्वान् सोश्‍नुत इत्यपि श्रुतिरहो ब्रूते परं विन्दते ।

तच्छ्रीरामपदं भजध्वमधुना ब्रह्मैव यन्निर्भयम् ॥

१०.

यत्सृष्टिर्स्थितिपालनं विदलनं घृत्वाऽपि साक्षी स्वयम् ।

अन्नप्राणमनोमतिभ्यैतरच्चानन्दकोशातिगम् ॥

यन्मायारहितं चकास्तिसततं कार्यं न यस्मिन् क्वचित् ।

तच्छ्रीरामपदं भजामि नितरामानन्दमात्रं शिवम् ॥

११.

येनेदं मन इन्द्रियाणि च तथा प्राणा जगज्जायते ।

जन्मादिष्वपि जाग्रदादिषु तथा यज्ज्ञापकं विस्फुटम् ॥

यस्मिन्सर्वमिदं प्रतिष्ठितमहो रज्ज्वां यथाहेभ्रमः ।

प्रज्ञानं प्रभुरामरुपमचलं तच्चिन्तये सिद्धये ॥

१२.

यो भूमा सुखमद्वितीयमधुना जानीहि तत्त्व बृहत् ।

तच्छ्रीराम पदात्मरुपमिति यत् सूक्ष्माच्च सूक्ष्मं परम् ॥

श्रद्धत्स्वेति पुनश्‍च तत्त्वमसि भो ब्रूते श्रुतिनैकधा ।

ज्ञात्वा स्वल्पमिदं हि मर्त्यमिह यत्सत्यं भजेतत्पदम् ॥

१३.

ब्रह्माग्रे तदवेदहं पुनरिदं तत्सर्वमेवाभवत् ।

नास्त्य स्मादपर यतः पुनरिदं ब्रह्मैव सर्वं खलु ॥

तद्योऽबुध्यत सोऽभवत्तदपरं नासीत्स एवाद्वयः ।

ज्ञात्वा श्री गुरुरामरुपमभयं चाश्रित्य धन्या वयम् ॥

इति श्रीसमर्थरामदासांनुगृहीत श्रीरामचंद्रचरनारविन्दभृङगायमान

श्रीश्रीधरस्वामीविरचितं दशोपनिषत्सारं

श्रीरामभद्रस्तोत्रम् संपूर्णम् ॥

श्रीरामो विजयतेतराम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel