श्रीगणेशाय नम: ॥ सर्वे ऊचु: ॥
यतोऽनंतशक्तेरनंताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वं त्रिधाभेदभिन्नं सदा तं गणेशं नमामो भजाम: ॥ १ ॥
यतश्चाविरासीज्जगत्सर्वमेतत्तथाब्जासनो विश्वगो विश्वगोप्ता । तथेन्द्रादयो देवसंघा मनुष्या सदा तं गणेशं नमामो भजाम: ॥ २ ॥
यतो वह्निभानू भवो भूर्जलं च यत: सागराश्चंद्रमा व्योम वायु: । यत:स्थावरा जंगमा वृक्षसंघा सदा तं गणेशं नमामो भजाम: ॥ ३ ॥
यतो दानवा: किन्नरा यक्षसंघा यतश्चारणा वारणा: श्वापदाश्च । यत: पक्षिकीटा यतो वीरुधश्च सदा तं गणेशं नमामो भजाम: ॥ ४ ॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यत: संपदो भक्तसंतोषिका: स्यु: । यतो विघ्ननाशो यत: कार्यसिद्धि: सदा तं गणेशं नमामो भजाम: ॥ ५ ॥
यत: पुत्रसंपद्यतो वांछितार्थो यतोऽभक्तविघ्नास्तथानेकरूपा: । यत: शोकमोहौ यत: काम एव सदा तं गणेशं नमामो भजाम: ॥ ६ ॥
यतोऽनंतशक्ति: स शेषो बभूव धराधारणेऽनेकरूपे च शक्त: । यतोऽनेकधा स्वर्गलोका हि नाना सदा  तं गणेशं नमामो भजाम:  ॥ ७ ॥
यतो वेदवाचोऽतिकुंठा मनोभि: सदा नेतिनेतीति यत्ता गृणंति । परब्रह्मरूपं चिदानंदभूतं सदा तं गणेशं नमामो भजाम: ॥ ८ ॥
श्रीगणेश उवाच ॥ पुनरूचे गणाधीश: स्तोत्रमेतत्पठेन्नर: । त्रिसंध्यं त्रिदिनं तस्य सर्वकार्य भविष्यति ॥ ९ ॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् । अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवाप्नुयात् ॥ १० ॥
य: पठेन्मासमात्रं तु दशवारं दिने दिने । स मोचयेद्वन्धगतं राजवध्यं न संशय: ॥ ११ ॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् । वांछितान्लभते सर्वानेकविंशतिवारत: ॥ १२ ॥
यो जपेत्परया भक्त्या गजाननपरो नर: । एवमुक्त्वा ततो देवश्चान्तर्धानं गत: प्रभु: ॥ १३ ॥
  । इति श्रीगणेशपुराणे उपासनाखंडे श्रीगणेशाष्टाकं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel