श्री महागणेश पञ्चरत्नं मुदा करात्त मोदकं सदा विमुक्ति साधकं कलाधरावतंसकं विलासि लोक रक्षकम् ।

अनायकैक नायकं विनाशितेभ दैत्यकं नताशुभाशु नाशकं नमामि तं विनायकम् ॥१॥

नतेतराति भीकरं नवोदितार्क भास्वरं नमत् सुरारि निर्जरं नताधिकापदुद्धरम् ।

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्त लोक शंकरं निरास्त दैत्य कुन्जरं दरेतरोदरं वरं वरेभवक्त्रं अक्षरम् ।

कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

अकिंचनार्ति मर्जनं चिरन्तनोक्ति भाजनं पुरारिपूर्वनन्दनं सुरारि गर्व चर्वणम् ।

प्रपञ्चनाश भीषणं धनंजयादि भूषणं कपोलदानवारणं भजे पुराणवारणम् ॥४॥

नितान्त कान्त दन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तराय कृन्तनम् ।

हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेकमेव चिन्तयामि सन्ततम् ॥५॥

फल श्रुती

महागणेश पञ्चरत्नं आदरेण योन्ऽवहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।

अरोगतां अदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्ट भूतिमभ्युपैति सोऽचिरत् ॥६॥

इति श्री शंकराचार्य विरचितं श्री महागणेश पञ्चरत्नं संपूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel