प्रथमाध्यायः
ॐ श्री कालभैरवप्रान्ते कुण्डमस्त्येकमुत्तमम् । कालाष्टमीदिने तत्र स्नानं कार्यं विधानतः ॥१॥
तत्कुण्डनिकटे रम्यं लिंगं कालेश्वराभिधमा । भैरवस्थापितं तिष्टत्येकं पापौघनाशकम् ॥२॥
तत्पूजनं यथाशास्त्रं कार्यं बिल्वदलादिभिः । ततः पूजा यथाशास्त्रं कर्तव्या भैरवस्य च ॥३॥
प्रदक्षिणा नमस्काराः कार्याश्चाष्टोत्तरं शतम् । जागरेणोपवासेन प्रीणनीयो हि भैरवः ॥४॥
शुचिभिस्तैलपक्‌वान्नैः शैवा ब्राह्मणपुंगवाः । भोजनीयाः प्रयत्‍नेन भैरवप्रीतिकामुकैः ॥५॥
पार्वत्युवाच-
का वा कालाष्टमी शंभो सा कालस्य प्रिया कथम् । जागरेणोपवासेन कथं तुष्याति भैरवः ॥६॥
शिव उवाच-
'कालाष्टमी' ति विज्ञेया कार्तिकस्यासिताष्टमी । तस्यामुपोषणं कार्यं तथा जागरणं निशि ॥७॥
पुरा रयंतरे कल्पे वासिष्टाद्या मुनीश्वराः । देवाश्चेन्द्रादयः सर्वे काश्यां संपूज्य मां विभुम् ॥८॥
नित्ययात्रादिकं कृत्वा मध्यान्हे संस्थिते रवौ । कृत्तिवासेश्वरं प्रापुर्बिंल्वपत्रादि साधनाः ॥९॥
कृत्तिवासेश्वरं सम्यक् पूजवित्वा ततः परं । शंकर नित्यं उपविष्टध्यायंतः स्थिरासनाः ॥१०॥
तदानीं आगतो ब्रह्मा कृतिवासेश्वरालयम् । रिक्तपाणिरनभ्यर्च्यं शिवं मां स तु संस्थितः ॥११॥
तदानीं विस्मिताः सर्वे वसिष्ठाद्या मुनीश्वराः । तमूजुर्भ्रान्तमनसः स्मयाविषृमुदङ्‌मुखम् ॥१२॥
ऋषय ऊचुः
किं ब्रह्मन् देवदेवेशं शंकरं साम्बं अव्ययम् । अभ्यर्च्यं तमनभ्यर्च्य रिक्तपाणिकरुपस्थितः ॥१३॥
बिल्ववृक्षाः करप्राप्याः संति काश्यां तु भूरिशः । तथापि बिल्वपत्राणि नानीतानि कथं त्वया ॥१४॥
बिल्वकंटकभीत्या किं पत्रं तत् नार्जितं त्वया । किमेवं रक्षितेनाथ शरीरेण तवाधुना ॥१५॥
बिल्वकंटक सविद्ध करा बिल्वार्जनप्रियाः । भुक्त्‌वाभोगन् च विपुलान शिवलोकं प्रयांति हि ॥१६॥
धर्मसिद्धिर्विना क्लेशं धर्मस्तु क्लेशसाधितः। क्लेशाधिक्यात् फलाधिक्यं इति न ज्ञायते त्वया ॥१७॥
हंसतीर्थमिदं पुण्यं कृत्तिवासेशसंन्निधौ । ततो जलं वा नानीतं किं देवार्थं त्वयाऽधुना ॥१८॥
अपामार्गस्य पत्राणि सुलभानि बहूनि च । संत्यत्र तानि वा ब्रह्मन् नानीतानि कथं त्वया ॥१९॥
रिक्तहस्तो महादेव यो याति स महानपि । विनश्यति न संदेहो नरकं चाधिगच्छति ॥२०॥
पूज्यस्य देवदेवस्य शंकरस्य महात्मनः । न करोतिचयः पूजां स याति नरकं ध्‍रुवम ॥२१॥
प्रमादेनाभिमानेन तथा गर्वेण वा भ्रमात् । प्राप्य शंभुं रिक्तहस्तो नष्टधर्मो भविष्यति ॥२२॥
नष्टधर्मस्ततो याति यावत् चंद्र तारकं । नरकं तस्य नरकान्निर्गमो नास्ति सर्वथा ॥२३॥
प्रणामाश्च त्वया ब्रह्मन् न कृताः पापनाशकाः । महादेवस्य, तैरीशः प्रीणाति भगवान् शिवः ॥२४॥
शुभं नं दृश्यते ब्रह्मन् तवाद्यात्र न संशयः । अनर्चित महेशस्य व्क शुभंत्वशुभंध्‍रुवम् ॥२५॥
इत्युक्त्वा संस्थितान्, देवि ब्रह्मा तान् ऋषि सत्तमान् । उवाचातीव संक्‍रुद्धः पापाश्नय इवनिशम् ॥२६॥
ब्रह्मा उवाच-
अहमेवाखिलैः पूज्यः पूज्यो मम सर्वथा । किं शूली मम संपूज्यः पूज्योऽहं शूलिनो ध्‍रुवम् ॥२७॥
वेदाः सृष्टा मया सर्वे सृष्टा लोका मया पुरा । मदन्यः सर्जको लोके नास्ति पूज्योऽपि सर्वदा ॥२८॥
भ्रान्ता यूयं न संदेहः शूलिपूजापरायणाः । पूजा ममैव विहिता वेदास्तत्र तु साक्षिणः ॥२९॥
प्रलपन्नेवमेवान्यदपि भ्रान्तस्तथा विधिः । तस्थौ, ततो महाविष्णु रर्ध्यपाणिरुपागतः ॥३०॥
ततोऽभिषिच्य मां विष्णुः क्षीराज्यादिभिरादरात् । चकार पूजां विविधां बिल्वपत्रादिभिर्मुदा ॥३१॥
धूपं दीपांश्च नैवेद्यं क्षीराज्यदधिमिश्रितम् । दत्वा, पुनर्ददौ दीपान् पुनः पुष्पांजलिं ददौ ॥३२॥
प्रदक्षिणनमस्कारांश्चकार तदनंतरम् । ततः पंत्र्चाक्षरं शैव जजाप स जनार्दनः ॥३३॥
ततस्तं ध्याननिरतं विधिर्दृष्ट्‍वा हरिं तदा । उवाच वचनं भ्रान्तः क्रोधमुत्पादयन् हरेः ॥३४॥
ब्रह्मा उवाच
असंपूज्यैव पूजार्हं मां अयं विष्णुरुद्धतः । शूलिपूजां करोत्यत्र भ्रान्तोऽयं नात्र संशयः ॥३५॥
इत्युदिरितमाकर्ण्य वचनं तद् विधेर्हरिः । पूजां समाप्य तदनु जगाद वचनं तदा ॥३६॥
विष्णुः उवाच-
हा! हा! दुर्भग दुर्बुद्धे किमेवं वक्तुमर्हसि । कथं भ्रान्तोऽद्य जातोऽसि शुभं नाद्य तु दृश्यते ॥३७॥
सर्वदेवोत्तमः सांबः शंकरो भक्तवत्सलः । सर्वेषामपि संपूज्यः तस्य पूज्यो न दृश्यते ॥३८॥
तस्यैव पूजा विहिता सर्ववेदेषु सर्वदा । तत्पूजयैव संप्राप्यौ मोक्षो मोक्षपदः शिवः ॥३९॥
शिवपूजा मया पूर्वं बहुधैव कृता मुहुः । शिवपूजाप्रभावेण पालयाम्यखिलं जगत् ॥४०॥
इत्युक्तवंतं तं विष्णुंय भ्रान्तोऽसीति जगाद सः । मत्तोऽन्यो नहि संपूज्यः पूज्योऽहं नात्रं संशय ॥४१॥
भ्रांन्ताः सर्वे कथं जाताः, पूज्यं मां सर्वेसाधनैः । न पूजयन्ति दुर्वृत्ता मां इत्येवं वदन् स्थितः ॥४२॥
तदा क्लेशान्वितो विष्णुः शंकरं लोकशंकरम् । तुष्ट्‌वा विविधैस्तोत्रैरुवाचेदं वचस्तदा ॥४३॥
शंभो प्रसीद देवेश क्लेशं दूरी कुरुष्व मे । अशैव संहरष्वैनं अधर्मस्य प्रवर्तकम् ॥४४॥
अधर्मवृद्धया सर्वेपि यास्यंति नरकं ध्‍रूवम् । कृपालुरसि देवेश विधिं एनं विनाशय ॥४५॥
अशैवोऽयं दुराचारः स्थापनीयो न सर्वथा । अस्यैव शिक्षा कर्तव्या देवेशस्य पुरांतक ॥४६॥
नो चेत् अधर्मवृद्धिस्तु भविष्यति न संशयः अधर्म वृद्धया देवानां दुःखवृद्धिर्भविष्याति ॥४७॥
इत्युक्त्वा प्रणतो विष्णुः सऋषिः ससुरस्तदा । प्रसीदेश प्रसीदेश प्रसीदेति वदन् मुहुः ॥४८॥
तदोग्ररूपादनधान्मतः श्रीकाल-भैरवः । अविरासीत्तदा लोकान् भीषयन् अखिलानपि ॥४९॥
व्याप्यायं सप्तपातालान् अनंतचरणैः स्वयं । भूर्भुवः सुवरदींश्च शिरोभिर्व्याप्य संस्थितः ॥५०॥
दिशो दश व्याप्य हस्तैरनतैर्विवृताननः । अनंतसूर्यप्रतिमः कालानलसमप्रभः ॥५१॥
नानाशस्त्रावृतकरो नानागंधानुलेपनः । नानामाल्यावृतो नानारत्‍नाभरणसंवृतः ॥५२॥
अनंतरोमकूपेषु वहन्नग्निगणान् बहून् । निःश्वासपवनैरग्रीन् विसृजन रक्तलोचनः ॥५३॥
अकाण्डप्रलयाग्नीनां समूह इव संस्थितः । दृष्ट्‌वा तं विस्मिताः सर्वे देवाः सऋषिपुंगवाः ॥५४॥
चचालावनिरुद्विग्ना चेलुश्च कुलपर्वताः । शेषश्चकंपे सकलैः फणिभिश्च समावृतः ॥५५॥
तन्निःश्वासमहावायुरुत्पातपवनोऽभवत् । तत्काराऽऽघातमात्रेण पेतुरूर्व्यां च तारकाः ॥५६॥
पपात मूर्च्छितो विष्णुस्तं दृष्ट्‌वा भीमविग्रहम् । पेतुर्मुनिवराः सर्वे देवाश्चेन्द्रपुरोगमाः ॥५७॥
क्षुब्धाः समुद्राः सर्वेऽपि क्षीराब्धिप्रमुखास्तदाः उद्वेलाश्च बभूवुस्ते महाकल्लोलसंहताः ॥५८॥
ततःस भैरवो लोकान् भीषयन्नखिलानपि । प्रणम्य मामुवाचेदं वचनं विनयान्वितः ॥५९॥
श्रीभैरव उवाच-
शंभो कि करवाण्यद्य कार्यं किं समुपस्थितम् । शोषणीयाः समुद्राः किं क्षणेनैवावद्य लीलया ॥६०॥
किंवा कुलाचलाः सर्वे पेषणीयास्त्वदाज्ञया । भस्मीभूताश्च कर्तव्या देवाः सर्वे किमीश्वर ॥६१॥
किं भस्मतामुपैत्वीश सशैलवनकानना । पृथिवी सनदी सर्वा मामाज्ञापय शंकर ॥६२॥
मा विलंबं कुरुप्वेश किं विलंबेन शंकर । त्वत्प्रसादेन सर्वेषां नाशकश्च भवाम्यहम् ॥६३॥
मयोग्रतररूपेण तूर्ष्णी स्थातुं न शक्यते । देवोत्तम महादेव हराज्ञापय मां विभो ॥६४॥
एवम् उक्तो भैरवेण प्रणतश्च मुहुर्मुहुः । ततो ब्रह्मशिरश्छेदं कुरूष्वेत्युक्तवानहम् ॥६५॥
ततो विधिं भैरवस्तं दृष्ट्‌वा प्रस्फुरिताधरः । नरवाग्रेणैव चिच्छेद शिरांसि स पपात च ॥६६॥
ततस्तस्य विधेच्छिन्नं प्रथमं तु शिरस्तदा । जगाम नागनिलयं प्रलपन् सत्वरं शिवे ॥६७॥
तदा तस्य शिरो दृष्टवा ब्रह्मणः फणिराट् तदा । विस्मितोऽभूत् किमेतस्य शिरश्र्छेदस्य कारणम् ॥६८॥
फणिराट् उवाच-
इदं ब्रह्मशिरो नूनं मया तु परिचीयते । ब्रह्मणो न शिवादन्यः शास्ता देवेषु विद्यते ॥६९॥
प्रायशो देवदेवस्य महादेवस्य पूजनं । न कृतं ब्रह्मणा तस्मात् शिवेन निहतो विधिः ॥७०॥
प्रायशो ब्रह्मणा शंभोर्धिक्कारो वा कृतो ध्‍रुवं । नंदिकेशस्य वाऽन्यस्य शिवभक्तस्य वा पुनः ॥७१॥
शिवं वा शिवभक्तं वा नंदिकेशं शिवप्रियं । यो धिक्करोति तस्येयं गतिर्भवति सर्वथा ॥७२॥
अन्यथा ब्रह्मणोऽकाण्डे शिरश्छेदः कथं भवेत् । नायं प्रलयकालस्तु ब्रह्मविष्णवादिनाशकः ॥७३॥
समयः प्रलयस्यास्तु माऽस्तु वाऽयं तथाप्यहं । काशीं प्रति गमिष्यामि यत्र प्रलयभीर्न मे ॥७४॥
महाप्रलयकालेऽपि काशीस्थो न विनश्यति । ततः काशीमहं यास्ये यत्र न प्रलयात् भयम् ॥७५॥
दग्धः भवतु ब्रह्मा द्या, लोका दग्धा भवन्तु च । यास्येऽहं सर्वथा नित्यां काशीं माहेश्वरीं पुरीम् ॥७६॥
इत्युक्त्या फणिराट् शीघ्रं काशीं प्रतिसमाययौ । पाहि पाहि महादेव प्रलयात् इति संवदन् ॥७७॥
संप्राप्य काशीं पूतात्मा प्रह्रष्टह्रदयः फणी । अमन्यत तदाऽऽत्मानं कृतार्थं भाग्यसंश्रयं ॥७८॥
दृष्ट्‌वा काशीपुरीं शैवीं शिवमोक्षप्रदायनीमः । साक्षात् शिवस्वरूपेयं देवानामपि दुर्लभा ॥७९॥
कृपा मयि महेशस्य संपूर्णा तिष्ठति ध्‍रुवम् यतोऽतिदुर्लभा काशी सुलभाऽद्य ममाभवत् ॥८०॥
अतःपरं भयं नास्ति, मृत्योरपि मम ध्‍रुवं । यतःप्राप्ता मया काशी, मां मृत्युर्नावपश्यति ॥८१॥
ततः सरत्‍नपुष्पाध्यैः विश्वेशं मां सनातनं । संपूज्य नित्ययात्रादि सर्वं कर्म चकार सः ॥८२॥
आदिभैरवमभ्यर्च्य धूपदीपादिभिः ततः । कृत्तिवासेश्वरं द्रष्टुं पुष्पपाणिरुपाययौ ॥८३॥
तत्र श्रीभैरवं दृष्ट्‌वा भीमरूपं भयानकम् । चकम्पे मूर्च्छितः शेषः पपात पृथिवीतले ॥८४॥
ततश्चोत्थापितो विष्णुर्मया पूर्वं स मूर्च्छितः । इंद्रादयः सऋषयः मयैवोत्थापिताः शिवे ॥८५॥
विष्णुरिन्द्रः फणिपतिर्देवाश्चन्ये मुनीश्वराः । ददृशुच्छिन्नशिरसं विधिं तं पतितं भुवि ॥८६॥
ततो विष्णुः सदेवेन्द्रः सऋषिः सफणिस्तदा । स्तोत्रैनेकैः तुष्टाव भीमं श्रीकालभैरवम् ॥८७॥
देवा ऊचुः
नमस्ते कालनाथाय नमस्ते कालरूपिणे । नमो भीमाय चोग्राय नमस्ते शूलपाणये ॥८८॥
नमस्ते कालकालाय नमस्ते कालभक्षक । नमो दिगंबरानन्त ममः परमपुरुष ॥८९॥
नमो विश्वात्मक श्रीमन्‌ नमो विश्वैकजीवन । नमस्तेऽस्तु सहस्राक्ष सहस्रक्रर ते नमः ॥९०॥
सहस्रचरणामेय नमस्ते भैरव प्रबो । नमस्ते रुद्र रुद्रात्मन् नमस्ते रुद्रसंभव ॥९१॥
नमस्ते शाश्वतानंद नमस्ते भूतभावन । नमस्ते सर्वलोकेश सर्वाधारामरार्वित ॥९२॥
नमस्ते दिक् स्वरूपाय नमस्ते भूस्वरूपिणे । नमस्ते सूर्यरूपाय चंद्ररूपाय ते नमः ॥९३॥
नमस्ते ग्रहरूपाय रूपातीताय ते नमः । नमः सकलकल्याणभाजनायामितात्मने ॥९४॥
नमः परमवीराय नमः परशुधारिणे । नमो डमरुहस्ताय नमः खट्‌वांगधारिणे ॥९५॥
नमोऽनंगुतणाधार नमोऽनन्त स्वरूपिणे । नमोविभूतिकवच व्योमकेश नमोस्तुते ॥९६॥
नमस्त्रिशूलखर नमस्ते मुण्डमालिने । नमः प्रेतासनासीन जपावर्ण नमोस्तुते ॥९७॥
नमोब्रह्मण्यरूपाय विधिनाशक ते नमः । अशैवशैलव्रजेश शिवद्रोहिविनाशक ॥९८॥
शिवभक्तप्रिय श्रीमन् नमः श्रीकालभैरव । शरण्यमूर्ते सर्वात्मन् नमस्ते भक्तवत्सल ॥९९॥
शिवनेत्रानल श्रीमन् नमस्ते शिवपूजक । नमो रक्तांबर श्रीमन् नमस्ते रक्तचंदन ॥१००॥
नमस्ते रक्तकेशाय नमस्ते रक्तबाहवे । नमस्ते रक्तभालाय नमो रक्तनरवाय ते ॥१०१॥
निर्विकार निरीहेश निरंजन निराश्रय । निरूपफ्लव निर्द्वन्द्व निरवद्य निरामय ॥१०२॥
व्यालोपवीतिन् उग्रात्मन् महाप्रलयकारण । अनेकसोमसूर्याग्निगणाकार नमोऽस्तुते ॥१०३॥
दृष्ट्‌वा तवेदमत्युग्रं रूपं भीता दिवौकसः । भीतोऽस्म्यहम् कृपासिंधो भीताश्च ऋषिपुंगवाः ॥
द्रष्टुं न शक्यते घोरं तवेदं रूपं ईदृशम् । सौम्यं रूपं वहस्वेश प्रसीद करुणाकर ॥१०५॥
दुष्टस्यस्येयं मता शिक्षा शिवद्रोहरतात्मनः । शिक्षेयं एवं सर्वेषां अशैवानां दुरात्मना ॥१०६॥
उत्साहोऽद्य महानासीत् मम श्रीकालभैरव दुरात्माऽयं शिवद्रोही निहतोऽद्य यतस्त्वया ॥१०७॥
यदा मह्यं महेशेन विष्णुत्वं दत्त आदरात् । तदाऽपि भैरव श्रीमन् सन्तोषो नेदृशो ध्‍रुवम् ॥१०८॥
अशैवे निहते दुष्टे धर्मोऽपि स्थिरतां गतः । अन्यथा धर्मलेशस्याप्यवस्थानं तु दुर्लभं ॥१०९॥
परंत भैरव श्रीमन् शिक्षाऽस्य हितकारिणी । जाता, मरणमात्रेण मुक्तिरत्र भविष्यति ॥११०॥
ततोऽस्य मरणं येन न भविष्यति भैरव । तथा शिरांसि ग्रीवासु योजयामि त्वदाज्ञया ॥१११॥
एकं गतं शिरोऽस्यैव पातालं प्रति सत्वरं । दुःखमेवमशैवानां भात्यारब्यापनाय तत् ॥११२॥
तेनोनः शिरसा ब्रह्मा दुःखितस्तिष्ठति प्रभो । मरणे त्वस्य दुःखानि नेदुशानीति मन्महे ॥११३॥
स्मरन् स्वकृतकर्माणि दुःखहेतून्ययं विधिः । तिष्ठत्वाकल्पमत्यंतं दुःखितःप्रलपन् सदा ॥११४॥
अपराधिनमालोक्य नृपाश्च क्‍रुरशासनाः । कुर्वंति पादहस्तान्यतरलूनं दुरीसदा ॥११५॥
एनमालोक्य शिरसा हीनमन्ये नराःसुरा । शिवद्रोहं दुःखहेतुं न करिष्यन्ति सर्वथा ॥११६॥
ब्रह्मणोऽपीदृशं दुःखं शिवद्रोहहरतात्मनः । किमुतास्माकमित्यन्ये भीताः स्थास्यांति भैरव ॥११७॥
शिक्षेयं महती नूनं ब्रह्मणोऽमिततेजसः । शिक्षेवमेव कर्तव्या शिवद्रोहरतात्मनां ॥११८॥
अशैवा नरके घोरे पातनीयाः प्रयत्‍नतः । यथा तेषां दुखःवृद्धिस्तोषवृद्धिस्तथा मम ॥११९॥
प्राणैः संयोजयाम्येनंसत्वरं दुःखित स्त्वयं । दुःखं प्राणिवियोगस्य कथं भवति भैरव ॥१२०॥
किं चास्य तृणकरूपस्य वधार्थं रूपमीदृशम् । किमर्थं घृतं ईशान कल्पक्षयकरं परं ॥१२१॥
महाकल्पस्य नाशेऽपि न धृतं रूपमीदृशम् । प्रायशो भैरव श्रीमन् प्रलयांतकर प्रभो ॥१२२॥
कुटिलेनाक्षिपातेन लोकान् सर्वांन् अपि क्षणात् । भस्मीकर्तुं समर्थोऽसि भैरवात्र न संशयः ॥१२३॥
प्रसंगेनापि देवेश तव रूपं सनातनं । दृष्टमद्य कृतार्थोऽस्मि क्वैतद्‌रूपस्य दर्शनम् ॥१२४॥ कैतद्‌रूपस्य दर्शनम् ॥१२४॥
आद्यं तद्‌ दृष्टं एतन्न रूपं भैरव सर्वथा । इदं किंचिदपि द्रष्टुं न शक्यं सत्यं उच्यते ॥१२५॥
इत्युक्त्वा सऋषिर्विष्णुभैरवं भीमशासनं । मुहुर्महः प्रणम्यास्य पादमूले पपात सः ॥१२६॥
सौम्यरूपधरः श्रीमान् ततः श्रीकालभैरवः । उत्थाप्य विष्णुं वचनं जगादैनं तथास्तिवति ॥१२७॥
ततःपरं भैरवस्य भीमरूपस्य केशवः । आज्ञां मूध्नो समादाय ह्रष्टचित्तोऽभवच्छिवे ॥१२८॥
ततो विधिकबंधेन तच्छिरांस्यवनीतलात् । गृहीत्वा योजयामास यथास्थानं यथाक्रमम् ॥१२९॥
ततः स भैरवस्यैव प्रसादात् प्राणवानभूत् । ततश्च दुखं संप्राप्य गतोऽन्यत्र स लज्जया ॥१३०॥
ततो ववुः सुखा वाताः पुष्पवृष्टिर्बभूव च । प्रसन्नाश्च दिशः सर्वाबभूवुर्भूसुराः पुनः ॥१३१॥
सिंधवोऽपि यथास्थानं तस्थुः शैलाश्च पार्वति । पृथिवी च जहौ कंपं शेषः स्वस्थानमाययौ ॥१३२॥
एतस्मिन्नंतरे देवाः सूर्येऽप्यस्तं गते शिवे । ततः संध्यादिकं कृत्वा शिवपूजापरा बभूवुः ॥१३३॥
ततः काशीपालनार्थं भैरवः स्थापितो मयाः । कुत्तिवाश्चसेरस्यैव दक्षिणादिशि सादरम् ॥१३४॥
ततः सायं विष्णुमुखाः कृत्वा पूजां मम प्रिये । भैरवाभ्यर्चनार्थं ते जग्मुर्भैरवन्निधौ ॥१३५॥
ततस्ते भैरवं देवं उपचारैश्च षोडशैः । संपूज्यार्घ्यंप्रदानानि चक्रुर्भक्तिसमन्विताः ॥१३६॥
उपोषणस्यांगभूतं अर्घ्यदानमिह स्मृतम् । तथा जागरणं रात्रौ पूजा यामचतुष्टये ॥१३७॥
भैरवायोग्ररुपाय यस्त्वर्ध्यं न प्रयच्छति । तस्योपवासजनितं न फलं जागरार्जित ॥१३८॥
पात्रे पुष्पाणि सजलान्यादायार्ध्यं मनुं त्वमुं । जपन्तो ददुरर्ध्याणि भैरवायामितात्मने ॥१३९॥
(अर्घ्यमंत्र १४० ते १४२)
भैरवार्घ्यं गृहाणेश भीमरूपाव्ययानघ । अनेनार्घ्यप्रदानेन तुष्टो भव शिवप्रिय ॥१४०॥
सहस्राक्षिशिरोबाहो सहस्रचरणाजर । गृहाणार्घ्यं भैरवेदं सपुष्पं परमेश्वर ॥ १४१॥
पुष्पांजलिं गृहाणेश वरदो भव भैरव । पुनरर्घ्यं गृहाणेदं सपुष्पं यातनापह ॥१४२॥
इति कृत्वाऽर्घ्यदानानि निशि विष्णुपुरोगमाः । चक्‍रुर्जागरणं रूपंशंसन्तो भैरवस्य तो ॥१४३॥
भैरवस्य तु कर्तव्या पूजा यामचतुष्टये । कार्यं शिवकथाऽऽलापैर्निशि जागरणं सदा ॥१४४॥
जागरं चोपवासं च कृत्वा कालाष्टमीदिने । प्रयतः पापनिर्मुक्तः शैवो भवति शोभने ॥१४५॥
यो देवि भैरवाष्टम्यां उपवासं प्रयत्‍नतः । न करिष्यति मोहेन स यात्येव हियातनाम् ॥१४६॥
तस्मात् पूजा भैरवस्य कर्तव्या सततं बुधैः । यातनाभीरूमर्त्यैर्मुनिभिश्चमरैरपि ॥१४७॥
यथाऽहमन्वहं पूज्यः तथा प्रत्यहमादरात् । पूजनीयः प्रयत्‍नेन भैरवो भीमशासनः ॥१४८॥
॥इति श्रीकालभैरवमाहात्म्ये प्रथमोऽध्यायः समाप्तः॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel