अथ द्वितीयोऽध्यायः ।
पुराविष्णुरनेनैव भैरवेण हि भक्षितः । निष्कासितश्च तेनैव पुनः संस्थापितो हरिः ॥१४९॥
पुरा क्षीराब्धिमध्यस्थो विष्णुर्लक्ष्मीसमन्वितः । सायंकालेऽपि संश्र्लिष्य लक्ष्मीं तस्यौ प्रहर्षितः ॥१५०॥
तदा विलोक्य तं लक्ष्मीर्विष्णुं प्रोवाच सादरम् । रविरस्तंगतो मुज शय्यां मां च रतिं मयि ॥१५१॥
लक्ष्मीः उवाच
सायंकाले शयानस्य लक्ष्मीर्नष्टा भविष्यति । विशेषतः स्त्रीरतस्य त्यक्तसंध्यादिकर्मणः ॥१५२॥
सायंकाले महादेवः पूजनीयोऽखिलैरपि । कुरु भस्माद्धूलनादि सर्वपापविनाशकम् ॥१५३॥
बिल्वपत्रादि संपाद्य यज देवोत्तमं शिवं । प्रणामानि कुरु प्रीत्या शरणं व्रज शंकरम् ॥१५४॥
सर्वेष्वपि प्रदोषेषु पूजनीयः सदाशिवः । इदानीं सप्तमीयोगो विशेषेणाद्य वर्तते ॥१५५॥
यः सप्तमीप्रदोषेषु शंकरं पूजयिष्यति । न तस्य नरकावासो दारिद्रां च न सर्वथा ॥१५६॥
प्रदोषकाले भगवान् महादेवः सुराधिपः । करोति तांडवं देमुपविवेश्य शुभासने ॥१५७॥
तांडवाभिरतं देवं ग्रहनक्षत्रमालिनं । ह्रदि ध्यात्वा महादेवं पूजयस्व सुरोत्तमम् ॥१५८॥
अभिषंच्य महादेवं लिंगरूपिणमव्ययं । क्षीरेणानेन शुद्धैश्चा जलैनीहारसंन्निभैः ॥१५९॥
गृहीत्वा चंदनं रम्यं शिवलिंगं समर्चय । एतैर्नवै र्बिल्वपत्रैरभ्यर्चय महेश्वरं ॥१६०॥
धूपदीपादिकं दत्वा नैवेद्यं च समर्पय । प्रणायामानि कुरु प्रीत्या शैवं पश्चाक्षरं जप ॥१६१॥
कुरु नृत्यं महादेवप्रीत्यर्थं करताडनैः । प्रीणयस्व महादेवं शरणं याहि शंकरं ॥१६२॥
शिवपूजार्थमालस्यं यः करिष्यति मूढधीः । स विहाय क्षीरमुष्णं मूत्रं पिबति सर्वथा ॥१६३॥
यदि त्यक्ष्यसि सायाह्नि महादेवस्य पूजनं । तदा त्वया मयाऽप्यद्य दुःखं प्राप्यं न संशयः ॥१६४॥
पत्रैर्जलैर्वा मंत्रैर्वा पूजितः परमेश्वरः । तुष्टो भवति गौरीशः त्वमेवार्चय शंकरम् ॥१६५॥
धत्तूरकुसुमेनापि पूजितः शंकरः स्वयम् । ददाति परमं स्थानं योगिनामपि दुर्लभम् ॥१६६॥
तस्मादुत्थाय यत्‍नेन पूजयस्व सदाशिवम् । संपूज्य सायं विश्वेशं निष्पापो भव सत्वरम् ॥१६७॥
सायंकाले महादेवं यो नार्चयति शंकरम् । स एव सर्वपापानां आश्रयो भवति ध्‍रुवं ॥१६८॥
सायं त्यक्त्वा शंकरस्य देवदेवस्य पूजनं । यस्तिष्ठयापदां प्राप्त्यै स तिष्ठति न संशयः ॥१६९॥
ऐश्वर्यं तु त्वया प्राप्तं शंकरस्यैव पूजया । तादृशेन कथं त्याज्यं त्वया शंकरपूजनं ॥१७०॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः । मुच्यते पातकैः सर्वेः प्रदोष शिवपूजया ॥१७१॥
हितमेव मयोक्तं ते नाहितं वच्मि सर्वथा । अविलंबेन यत्‍नेन पूजयस्व महेश्वरं ॥१७२॥
इत्युक्त्वा संस्थितां लक्ष्मीं भ्रांतचित्तो हरिस्तदा । उवाच वचनं लक्ष्मीं कंपयन् कुपिताननः ॥१७३॥
विष्णुः उवाच
को वा ममास्ति संपूज्यः पूज्योऽहं सर्वदेहिभिः । क्क शंकरः क्क वा तस्य पूजेन मुक्तिहेतुता ॥१७४॥
लक्ष्मीः उवाच
इत्युक्तं तद्वचः श्रुत्वा लक्ष्मीर्विष्णुमुवाच सा । हा हा विष्णो भ्रांतचित्तः कथं जातोऽसि तद्वद ॥१७५॥
तवाशुभस्य कालोऽयं सत्वरं समुपस्थितः । नो चेन्महादेवनिंदा कथं कार्या त्वया हरे ॥१७६॥
दुश्यन्ते दुष्टचिन्हानि शुभचिन्हं न किंचन । भ्रष्टं च मम धम्मिल्लं उत्तरीयं अधोगतम् ॥१७७॥
त्रुटिता कंठमाला च भ्रूव्यथाऽपि समुत्थिता । क्षणार्धेनैव संप्राप्यं अशुभं नात्र संशयः ॥१७८॥
महादेवस्य यो निंदां करिष्यति सुरोऽपि वा । स चंडालइति ज्ञेयो भवत्यग्रेऽपि सोऽन्त्यजः ॥१७९॥
एवमुक्त्वा स्थिता लक्ष्मीः तदानीं त्वेव भैरवः । क्षीराब्धिप्रमुखान् अब्धीन् पपौ सप्तापि लीलया ॥१८०॥
पंचाशद्दुगपर्यंतं समुद्रास्तस्य तूदरे । स्थितो विष्णुर्महालक्ष्म्या सहितः संकटं वहन् ॥१८१॥
ततश्चिक्षेप सकलान् अब्धीन् अमितविक्रमः । तदा दुःखमभूद्विष्णोर्नक्राणां अपि शोभने ॥१८२॥
ततः पपात गहने विष्णुर्जलविवर्जिते । पपातान्यत्र लक्ष्मीः सा दुःखिता भयविव्हला ॥१८३॥
पतिता शोकसंविष्टा स्मरंती शंकरं तदा । क्कासि शंभो महादेव पाहि पाहीति चावदत् ॥१८४॥
एतस्मिन्नन्तरे काले विष्णुर्लक्ष्मी उपाययौ । विष्णुंदुखितमालोक्य लक्ष्मीर्दुःखपरा ह्यभूत ॥१८५॥
लक्ष्मीं उवाच विष्णुस्तां मया तव वचः पुरा । न श्रुतं तत्फलं जातं आशु दुःखं उपागतं ॥१८६॥
शंकराभ्यर्चनं त्यक्त्वा सायं स्थितं अतो मया । प्राप्तं तु दुःसहं दुःखं मत्संबंधात्त्वयाऽपि तत् ॥१८७॥
आपदामाश्रया भ्रांता भ्रांतोऽहमपि दुःखभाक्‌ । मया भ्रांतेन न कृतं सायं शंकरपूजनं ॥१८८॥
विध्युक्तकर्मैरतैर्दुःख न प्राप्यते बुधैः । तदन्यैः सर्वथा प्राप्यं दुःखं नूनं क्षणे क्षणे ॥१८९॥
सायं शिवार्चनं कार्यम् अप्रमादेन पावनैः । तस्मादप्रमदो भूयात् इति वेदोऽपि वर्तते ॥१९०॥
अतःपरं पूजायामि शंकरं लोकशंकरं । अतियत्‍नेन कमले गतो मोहो ममाघुना ॥१९१॥
आयाहि यावो निलयं वैष्णवं दुःखनाशकं । यच्छंकरार्चनाल्लब्धं पदं सर्वार्थदायकं ॥१९२॥
सदाशिव उवाच
इत्युक्तं तद्वचः श्रुत्वा विष्णुं लक्ष्मीरुवाच तं ।
लक्ष्मीः उवाच
व्क वैष्णवपदं विष्णो किमद्याप्यस्ति तत्पदं ॥१९३॥
तत्पदं रिटिन प्राप्तं दत्तं तन्नंदिना पुरा । तस्मै तेन कथं देयं तत्पदं तव सौख्यद ॥१९४॥
अतःपरं कदा नंदी प्रसन्नस्ते भविष्यति । तुष्टिस्तु नंदिकेशस्य भूयसा तपसाऽपि नो ॥१९५॥
यद्यत् पदं तु देवानां धिक्कारेण महेशितुः । च्युतं तु तत्पदं सर्वं नंदिकेशन गृह्यते ॥१९६॥
शिवः कदाचित् तपसा प्रीतोऽल्पेन भविष्यति । नंदिस्तु न भवत्येव सहसा प्रीतमानसः ॥१९७॥
शिवधिक्कारनिरतं नंदिकेशो बलान्वितः । शस्त्रैःसंताडयत्याशु दुःखाब्धौ पातयत्यपि ॥१९८॥
अनेकेषु विचित्रेषु बहुदुःख प्रदेष्वयं । अशैवान् पातयत्येव तेषां दुःखप्रदो मुहुः ॥१९९॥
यस्य कस्यापि वा विष्णो महादेवस्य शासनं । न लंघनीयं सर्वेषां शास्ता यस्मान्महेश्वरः ॥२००॥
सर्वेषामपि देवानां यतःशास्ता महेश्वरः । ततस्तदाज्ञाकारित्वं देवाना मुचितेतं हरे ॥२०१॥
॥ इति श्रीकालभैरव माहात्म्ये विष्णु गर्व परिहारो नाम द्वितोयोऽध्यायः ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel