विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ।
अभ्यपद्यत दाशार्ह दहन्निव दिशो दश । अथ नारायणो देवस्तं दृष्ट्‌वा व्यसृजज्ज्वरम् ॥ १ ॥
माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ । माहेश्वरः समाक्रन्दन्वैष्णवेन बलार्दितः ॥ २ ॥
अलब्ध्वाऽभयमन्यत्र भीतो माहेश्वरो ज्वरः । शरणार्थी ह्रषीकेशं तुष्टाव प्रयतांजलिः ॥ ३ ॥
ज्वर उवाच । नमामि त्वाऽनंतशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।
विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद्‍ब्रह्म ब्रह्मलिंगं प्रशांतम् ॥ ४ ॥
कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । तत्संघातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ ५ ॥
नानाभावैर्लीलयैवोपपनैर्देवान्साधूंल्लोकसेतून् बिभर्षि । हंस्युन्मार्गन्हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमैः ॥ ६ ॥
तप्तोऽहं ते तेजसा दुःसहेन शीतोग्रेणात्युल्बणेन ज्वरेण । तावत्तापो देहिनां तेऽङघ्रिमूलं नो सेवेरन्यावदाशनुबद्धाः ॥ ७ ॥
श्रीभगवानुवाच । त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम् । यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम् ॥ ८ ॥
इत्युक्तोऽच्युतमानम्य गतोमाहेश्वरो ज्वरः । बाणस्तु रथमारूढः प्रागाद्योत्स्यन् जनार्दनम् ॥ ९ ॥
इति श्रीज्वरकृतकृष्णस्तोत्रं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel