४८६ - अधोभुवनपातालं बलिसद्म रसातलम् 
४८७ - नागलोकोऽथ कुहरं सुषिरं विवरं बिलम्
४८८ - छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः
४८९ - गर्ताऽवटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु
४९० - अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः
४९१ - ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः 
४९२ - विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरे
४९३ - शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे
४९४ - तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ
४९५ - अलगर्दो जलव्यालः समौ राजिलडुण्डुमौ
४९६ - मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः
४९७ - सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः
४९८ - आशीविषो विषधरश्चक्री व्यालः सरीसृपः
४९९ - कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी
५०० - दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः
५०१ - उरगः पन्नगो भोगी जिह्मगः पवनाशनः
५०२ - लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा
५०३ - कुम्भीनसः फणधरो हरिर्भोगधरस्तथा
५०४ - अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका
५०५ - त्रिष्वाहेयं विषाऽस्थ्यादि स्फटायां तु फणा द्वयोः
५०६ - समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्
५०७ - पुंसि क्लीबे च काकोलकालकूटहलाहलाः
५०८ - सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः
५०९ - दारदो वत्सनाभश्च विषभेदा अमी नव
५१० - विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः 
 

Please join our telegram group for more such stories and updates.telegram channel