मुद्रा
स्वस्ति श्रीमदखिलभूमण्डलालंकार-त्रयस्त्रिंशत्कोटि-
देवतासेवित श्रीकामाक्षीदेवीसनाथ-श्रीमदेकाम्रनाथ-
श्रीमहादेवीसनाथ-श्रीहस्तिनिरिनाथ-साक्षात्कारपरम-
अधिष्ठानसत्यव्रतनामाङ्कित-काञ्चीदिव्यक्षेत्रे शारदा-
मठसुस्थितानाम्, अतुलितसुधारसमाधुर्यकमलासनकामिनी-
धम्मिल्ल सम्फुल्लमल्लिकामालिकानिष्यन्दमकरन्दझरी-
सौवस्तिकवाङ्निगुम्भविजृम्भणानन्दतुन्दिलितमणीषि-
मण्डलानाम्, अनवरताद्वैतविद्याविनोदरसिकानाम्,
निरन्तरालंकृतीकृतशान्तिदान्तिभूम्नाम्, सकलभुवन-
चक्रप्रतिष्ठापक श्रीचक्रप्रतिष्ठाविख्यातयशोऽलंकृतानाम्,
निखिलपाषण्डषण्डकण्टकोद्धाटनेन विशदीकृतवेदवेदान्त-
मार्गषण्मतप्रतिष्ठापकाचार्याणाम्, श्रीमत्परमहंसपरिव्राजक-
आचार्यवर्य-श्रीजगद्गुरु श्रीमच्छंकरभगवत्पादाचार्याणाम्
अधिष्ठाने सिंहासनाभिषिक्त श्रीमन्महादेवेन्द्रसरस्वती-
संयमीन्द्राणाम्, अन्तेवासिवर्य श्रीमच्चन्द्रशेखरेन्द्रसरस्वती
श्रीपादैः ।
क्रियते नारायणस्मृतिः
तत्रभवान् मूक इति सुप्रसिद्धः महाकविशिरोमणिः
श्रीकामाक्षीदेवीकरुणाकटाक्षतरङ्गितपुण्यकवितारसपूरः
' मूकपञ्चशती' इति कर्तुर्नाम्ना प्रसिद्धमिमं लोकोत्तरं
ग्रन्थं प्रणीय भूमण्डलेऽनुत्तमं पुण्ययशोविशेषं शाश्वतीं
परानन्दानुभूतिं च लब्धवानिति सुविदितमेव । स्तोत्ररत्ने
चास्मिन् काञ्चीमध्यगत कामकोटिपीठाधिष्ठात्रीम्
इन्दुमौलेरैश्वर्यरूपां श्रीकामाक्षीं परदेवताम्,
आरूढयौवनाटोपा, तरुणिमसर्वस्वं, नित्यतरुणी,
लावण्यामृततरङ्गमाला, विभ्रमसमवायसारसन्नाहा,
शृङ्गाराद्वैततन्त्रसिद्धान्तं, मीनध्वजतन्त्रपरमतात्पर्यं,
कन्दर्पसूतिकापाङ्गी, मनसिजसाम्राज्यगर्वबीजं,
पुष्पायुधवीर्यसरसपरिपाटी, मदनागमसमयदीक्षित-
कटाक्षा, कुसुमशरगर्वसम्पत्कोशगृहम्, अनङ्गब्रह्मतत्त्व-
बोधसिरा, पञ्चशरशास्त्रबोधनपरमाचार्यदृष्टिपाता
इत्यादिरूपेण वर्णयन् पुनः लावण्यमृतपरकाष्ठाभूतां
तामेव परदेवतां, कारणपरचिद्रूपा, कैवल्यानन्दकन्दः,
आम्नायरहस्यम्, उपनिषदरविन्दकुहरमधुधारा,
वाङ्मनोऽतीता, आनन्दाद्वैतकन्दली, मुक्तिबीजम्,
आगमसल्लापसारयाथार्थ्यं, बोधामृतवीची, अभिदाकृतिः,
ऐकात्म्यप्रकृतिः, निगमवचस्सिद्धान्तः, गुरुमूर्तिः, इत्येवं-
रूपेण साक्षत्कुर्वन् यौवनशृङ्गारादिविषयरसानुभव-
सामग्रीं ज्ञानवैराग्यादिब्रह्मानन्दानुभवसामग्रीत्वेन
सम्पादयन् -
"शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥"
इति परदेवतानुग्रहफलीभूतां परवैराग्यकाष्ठां प्रकटयति ।
 [आर्या ४८ ]

पद्मपञ्चशतकात्मकेऽत्र ग्रन्थे शतकानां या आनुपूर्वी
तस्यामयं विशेषो दृश्यते । यथा कश्चन शिशुः चक्षुरादि
इन्द्रियप्रागल्भ्याविर्भावात्पूर्वं मनोवृत्तिमात्रेण कलयति
स्वेप्सितम् ; एवमार्याशतके भक्तशिशोः मनः प्रवृत्तिम्
अम्बिकायाः स्वरूपानुसन्धानपटीयसीं सम्पादयति
कविपुङ्गवः ; अयमाशयः -
"अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते ।
चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम् ॥"
इति श्लोकेन सूचितः ॥ [आर्या ९८ ]

द्वितीयशतके तावत् यथा किञ्चित्प्रवृद्धग्रहणशक्तिः
बालकः खान्तिके विद्यमानस्य  वस्तुनः दर्शन-
स्पर्शनादिभिः आह्लादमधिगच्छति तद्वत् भक्तबालकः
अत्यन्तमधोभागे विद्यमानस्य स्वस्यान्तिकत्वेनैव
जगन्मातुः निरन्तरध्यानफलीभूत पादारविन्द दर्शन-
आनन्दमनुभवतीत्ययमाशयः -
"मरालीनां यानाभ्यसनकलनामूलगुरवे
दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे ।
तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे
जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥"
इति श्लोकेन सूचितः ॥ [पादारविन्द ३ ]

यथा मनसः ज्ञानेन्द्रियाणां च स्फूर्त्यनन्तरमेव
वाक्प्रसरति, तथैव आर्यापादारविन्दशतकयोरनन्तरं
स्वप्रेमास्पदं वस्तु निरर्गलं स्तोतुमारभते -
"पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां
वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते ।
स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां
वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥"
इतादिना स्तुतिशतकेन । [स्तुति १ ]

लौकिकाविद्यादिषु कुशलः कश्चन यथा लौकिकसम्पदः
प्राप्तुर्महो भवति तद्वत् पूर्वकृतस्तुतिफलत्वेन भक्तः
अम्बिकायाः कटाक्षविशेषमधिगम्य परसंविदनुभूत्य-
उचिततेजःपुष्ट्यादिपात्रं भवतीत्ययमाशयः-
"अस्तं क्षणान्नयतु मे परितापसूर्य-
मानन्दचन्द्रमसमानयतां प्रकाशम् ।
कालान्धकारसुषमां कलयन् दिगन्ते
कामाक्षि कोमलकटाक्षनिशागमस्ते ॥"
इत्यादिभिर्वर्णनैः कटाक्षशतके सूचितः ॥[कटाक्ष ६ ]

यथा लौकिकसम्पत्सम्पूर्णः कश्चन समग्रयौवनः
लौकिकशृङ्गारसुखानुभवाय पात्रं भवति, तद्वत्
देव्याः परमानुग्रहपात्रीभूतः तदीयमन्दस्मित-
चन्द्रिकासनाथः आनन्दचन्द्र इव अलौकिक-
निरतिशयानन्दानुभवात्मकः प्रकाशत इति
अमूमेव भावप्रणालिकां महाकविः स्वयमेव
पञ्चशतीपुर्तिम्पद्येन आविष्यकरोति । यथा -
"आर्यामेव विभावयन्मनसि यः पादारविन्दं पुरः
पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् ।
कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विता-
मारोहत्यपवर्गसौधवलभीमानन्दवीचीमयीम् ॥"
इति ।

अस्या लोकोत्तरायाः स्तुतेः पठनमात्रेण तत्क्षणे
महाकविनाऽमुना अन्ततः परदेवतयैव वा
ऐकात्म्यमनुभवतीव साधकः ।
तदिदं ग्रन्थरत्नं द्राविडभाषामयार्थानुवाद-
सहितमचिरादेव महता परिश्रमेण भक्तिभरेण
मुद्राप्य श्री कामाक्षी देवी कुम्भाभिषेक शुभ-
मुहूर्त एव उपहारीकृतवते, मुद्रापणदिविषये परमं
साहाय्यमाचरितवद्भयः, तद्ग्रन्थपठितृभ्यश्च
भक्तपुङ्गवेभ्यः श्रीकामाक्षीकटाक्षाः समुल्ल-
सन्त्वित्याशास्महे॥
॥इति नारायणस्मृतिः ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
Please join our telegram group for more such stories and updates.telegram channel

Books related to देवी स्तोत्रे


चिमणरावांचे चर्हाट
नलदमयंती
सुधा मुर्ती यांची पुस्तके
झोंबडी पूल
सापळा
श्यामची आई
अश्वमेध- एक काल्पनिक रम्यकथा
गांवाकडच्या गोष्टी
खुनाची वेळ
मराठेशाही का बुडाली ?
कथा: निर्णय
लोकभ्रमाच्या दंतकथा
मृत्यूच्या घट्ट मिठीत
पैलतीराच्या गोष्टी
शिवाजी सावंत